Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 179
________________ भगवत्कुंदकुंदाचार्यः । पद्मनंदिगुरुर्जातो वलात्कारगणाग्रणीः पाषाणघटिता येन वादिता श्रीसरस्वती । कुंदकुदगुणी येनोर्ज्जयंतिगिरिमस्तके सोऽवताद्वादिता ब्राह्मी पाषाणघटिता कलौ । गुर्वावली - शुभचंद्रकृत पांडवपुराण: प्रमाणेनामुना विनिश्चीयते भगवत्कुंदकुंदस्य पुरस्तादपि जैनधर्मो दिगम्बर श्वेतांबरेतिभागद्वये विभक्त आसीत् । कुंदकुंदविरचितषट् पाहुडप्रथेऽपि श्वेतांबर संप्रदायास्तित्वमाभासते । यथा सिज्ज वच्छधरो जिणसासणे जइ वि होइ तिच्छयरो । गो विमोक्खमग्गो सेसा उम्मग्गया सव्वे ॥ १ ॥ जइ दंसणेण सुद्धा उत्तामग्गेण सावि संजुत्ता । घोरं चरिय चरितं इच्छीसु ण पव्विया भणिया ॥ २ ॥ सूत्र पाहुडप्रथः निर्णेयमिदमत्र दिगंबरसंप्रदाये कदा श्वेतांबर संप्रदायसमुपपत्तिरभिमता । देवसेनसूरिभिः स्वीयदर्शनसारग्रंथे तु गाथेयं प्रकटिता— एकसये छत्तीसे विक्कमरायस्स मरणपत्तस्स । सोरठ्ठे वलहीये उप्पण्णो सेवडो संघो ॥ १ ॥ दर्शनसारे यस्य विक्रमस्य व्यलोखे संवत्सरो भवेदनुमानतः स शकविक्रमः शालिवाहनो वा । जैनग्रंथेषु समस्तीयं शालिवाहन शकसंवत्सरयोर्विक्रमसंवत्सरलेखन परिपाटी । ततो १३६ तमसंवत्सरो यदि शकीयस्तदा तस्मिन् शकसंवत्सरे, १३५ शतोत्तरपंच त्रिशद्वर्षसम्मेलनतः २७१ तम वैक्रमसंवत्सरे निष्पन्ने नियतं श्वेतांबरसमुत्पत्तिस्तत्सान्निध्ये समजनीति निर्विवादनिश्वयः । एवं समनंतरं च श्वेतांबर समुत्पत्तेः प्रतिपादितश्रुतावतारप्रामाण्यात्सिद्ध्यत्यवदाततया भगवत्कुंदकुंदसमयस्तृतीयशताब्देश्वरमभागे । २१३ तमवैक्रमसंवसरात्पूर्वे तु साधयितुमेव नार्हति भगवत्कुंदकुंदोत्पत्तिसमयः । श्रीमद्भगवत्कुंदकुंदसमयविषये विद्वद्वरश्रीमत्पंडित के - बी- पाठकमहोदयानां मतमिदं— कोण्डकोन्दान्वयोदारो गणोऽभूद्भुवनस्तुतः तदैतद्विषयविख्यातं ( ? ) शाल्मलीग्राममावसन् ॥१॥ आसीदतोरणाचार्यस्तपःफलपरिग्रहः । तत्रोपशमसंभूतभावनापास्तकल्मषः ॥ २ ॥ पंडितः पुष्पनंदीति बभूव भुवि विश्रुतः । अंतेवासी मुनेस्तस्य सकलश्चन्द्रमा इव ॥ ३ ॥ प्रतिदिवसभवदुवृद्धिर्निरस्तदोषो व्यपेतहृदयमलः । परिभूतचंद्रविम्बस्तच्छिष्योऽभूत्प्रभाचंद्रः ॥४॥ अमूनि पद्यानि राष्ट्रकूटवंशतृतीयगोविंद महाराज समकालीन ७२४ तमशकसंवत्सरस्य ताम्रपट्टे विलिखितानि प्राप्तानि । तस्यैव गोविंदमहाराजस्य समकालीन ७१९ तमशक संवत्सरस्यापरोऽपि कश्चित्तानपट्टः संप्राप्तस्तत्र च निम्नलिखितानि पद्यानि - आसीदतोरणाचार्यः कोण्ड कुंदान्वयोद्भवः । स चैतद्विषये श्रीमान् शाल्मलीग्राममाश्रितः ॥ १ ॥ १ नापि सिध्यति वस्त्रधरो जिनशासने यद्यपि भवति तीर्थकरः । arat विमोक्षमार्गों शेषा उन्मागांः सर्वे ॥ १॥ यदि दर्शनेन शुद्धा उत्तममार्गेण खापि संयुक्ता । घोरं चरति चरित्रं स्त्रीषु न...... भणिता ॥ २ ॥ एकशते षट् त्रिंशति विक्रमस्य मरण प्राप्तस्य । सौराष्ट्रे वक्रभीके-उत्पन्नः श्वेतविरसंघः ॥१॥

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250