Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 181
________________ भगवस्कुंदकुंदाचार्यः। भगवत्कररचितकृतिषु समयसार-पंचास्तिकाय-प्रवचनसारेति त्रिकृतयः सर्वप्रधानाः । कृतित्रिकमिदं च दिगम्बरसमाजे प्राभृतत्रयनाम्ना च विश्रुतं । अध्यात्मवेदांतविषयः किल जैनधर्मस्य ग्रंथत्रय एवास्मिन् समंजसतया समुपवर्णितः । न काप्यस्युक्तिः स्यात् यदि ग्रंथत्रयमिदं जैनधर्मस्य जीवत्वेन प्राणत्वेन वाभ्युपगतं स्यात् । निश्चयकिलायमास्माकः यावन्न कश्चिदध्यैष्यत ग्रंथत्रयमिदं न प्रत्यपरस्यत स तावज्जैनधर्मज्ञता ततो जैनधर्मज्ञातृत्वमानिभिः तत्समहिमानैश्च नियतमभ्यसनीयमेतद्ग्रंथरत्नत्रयं । टीकाकारी। श्रीमदमृतचंद्रसूरिःनात्र संशीतिः समजनि श्रीमदमृतचंद्रो ग्रंथकारष्टीकाकारश्च । परंतु पावनात्मायं महात्मा कदा ? क ! अनवद्यात्मनीनवैदुष्येण भारतभूमि विभूषयामासेति निर्णयाय न वरीवरीति समीपेऽस्माकं किमपि सुदृढ़ गमकं । केचिदामनंति विद्वांसोऽस्य महात्मनो दशमशताब्दिकालं परं तत्र पुष्कलप्रमाणाभावात् न स हि प्रमाणतामास्कंदति । महात्मायं स्वकरकलितगंथेषु टीकासु वा स्वनामातिरिक्तमात्मनीनगुर्वादिनामापि न विलिलख यतो भवेत् सुगमता तत्समयादिविनिर्णयाय । ततो दुरधिगम्य एवास्य विदुषः समयादिविनिर्णयः । पुरुषार्थसिद्ध्युपायः तत्त्वार्थसारः, इति ग्रंथद्वयं स्वातंत्र्येण तन्निर्मितमवातरति दृष्टिपथं सांप्रतं । भगवत्कुंदकुंदस्वामिरचितसमयसार-पंचास्तिकायसार-प्रवचनसारेतिनाटकत्रयस्य टीकाश्च तिस्रः। ताश्च टीका स्वस्वरूपेण भाष्यतामनुकुर्वति । नात्र संदेहः महात्मायं तात्विकतात्पर्यनिर्णायकवचनरचनातः समवबोधयति यत्संप्रापादिमपदमध्यात्मटीकाकृत्सु सः । विद्यते जैनसमाजे कश्चिदपूर्वः किंत्वपूर्णः पंचाध्यायी ग्रंथः। योऽचिरकालतएव प्रकाशपदवीमुपनीतः यस्य चाध्ययनाध्यापनप्रसारः समजनि न्यायवाचस्पति पंडितप्रवरश्रीगोपालदासपावनजीवनमूलक जैनसिद्धांतमहाविद्यालयमुरैनातः। सोऽप्यस्यैव महात्मनः कृतिरिति विनिर्धारितस्तद्रचनाशैलीविलोकनात् विषयप्रतिपादनशैलीदर्शनाच्च । भवितव्यं चानवद्यप्रतिभामृतचंद्रसूरिकल्पेनैव विदुषा तथाविधगभीरकृतिनिर्माणमिति । . जयसेनाचार्यः नाम्नानेन किल, समजनिषत नैकविद्वांसो भुवि, तत्र भगवज्जिनसेनाचारादिपुराणो यः संस्तुतः स प्रथमः । हरिवंशपुराणप्रशस्तौ च यः सिद्धांतशास्त्रज्ञत्वनोपन्यस्तः स द्वितीयः तृतीयश्च परिवर्तितवर्णिदुलीचंदप्रतिष्ठापाठप्रणेता। गवेषणायां सत्यामन्येपि मिलिष्यति । ततो न निश्चेतुं पार्यते निशंकं कतमो जिनसेनाचार्यस्तात्पर्यवृत्तिप्रणेता। प्रवचनसारपंचास्तिकायसारप्रशस्तौ परिचाययति महात्मायमित्थं अज्ञानतमसा लिप्तो मार्गो रत्नत्रयात्मकः । तत्प्रकाशसमर्थाय नमोऽस्तु कुमुर्देदवे ॥१॥ सूरिः श्रीवीरसेनाख्यो मूलसंघेऽपि सत्तपाः । नैपथ्यदवीं भेजे जातरूपधरोऽपि यः ॥२॥ ततः श्रीसोमसेनोऽभूत-गुणी गुणगणाश्रयः । तद्विनेयोऽस्ति यस्तस्मे जयसेनतपोभृते (!) ॥३॥ इतिपद्यत्रयाद्विज्ञायते वीरसेनशिष्यः सोमसेनस्तच्छिष्यो जयसेनः स च मुनिमूलसंघीयः । अपरश्चैको जयसेनः स्वनिर्मितवसुविंदुप्रतिष्ठापाठे परिचाययतीत्थं कुंदकुंदाग्रशिष्येण जयसेनेन निर्मितः । पाठोऽयं सुधियां सम्यग् कर्तव्यायास्तु योगतः ॥१॥ श्रीदक्षिणे कुंकुणनानिदेशे सह्याद्रिणा संगतसीम्नि पूते । श्रीरत्नभूध्रोपरिदर्घिचैत्यं लालादराज्ञा विधिनोर्जितं यत् तत्कार्यमुद्दिश्य गुरोरनुज्ञामादाय कोल्हापुरवासिहर्षात् दिनद्वये स लिखितः प्रातज्ञापूर्त्यर्थमेवं श्रुतसंविधत्ति॥३॥ ___ वसुविंदुरिति प्राहुस्तदादि गुरवो यतः । जयसेनापराख्यां तन्नमोऽस्तु हितर्षिणां ॥४॥ ___ प्रथमश्लोकस्थ "कुंदकुंदाग्रशिष्ट्येणेति विशेषणेनानुमीयते यत् तात्पर्यवृत्तिकानेनैव जयसेनेन भाव्यं । पर कदा क समभूदयं मुनिराडिति विनिश्चित्यै नास्ति किमपि निष्कल्मषं गमकं । मुनिनानेन स्वनिर्मिततात्पर्यवृत्तौ कियत्सुचित्पद्येषु श्रीमदमृतचंदसूरिटीका वर्णतः समनुकृता शब्दैः परावृत्त्य तात्पर्यमपि यत्र कुत्रचिदमृतचंद्रसूरिनिर्दिष्टमेव समुद्घोषितं ततः समजन्ययं महात्मा श्रीमदमृतचंद्रसूरितःपश्चादिति नियतं विभाव्यते। निवेदयिता-गजाधरकाल:

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250