Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya
View full book text
________________
भगवत्कुंदकुंदाचार्यः।
स्थानं । श्रुतावतारलेखतः समनुभूयते-समभूद्भगवान् कुंदकुंदः संभाव्यमानकर्णाटकप्रांतांतर्गतकोण्डकण्डपु. रे । यदा भद्रबाहुस्वामिसमानकालीनः समजनि गरीयान्दुष्कालस्तदा, अगाद्विशालसंघो मुनीनां मुनिवरभद्रबाहुणा समं कर्णाटकदेशं । समजनि च तदात्वे चारित्रशैथिल्यादत्र श्वेतांबरदिगंबरविभागः । विनिर्धार्यते संजायमाने किल भेदद्वये दिगंबराचार्यैदक्षिणकर्णाटकदेशः श्वेतांबरैश्च गुर्जरः, उत्तरभारतश्च विचक्रे स्वीयं प्रधानस्थलं । कियस्कालप्रागेवास्माद्भेदात्समजनि श्रीकुंदकुंदभगवान् । अतः कर्णाटकप्रांत एव नियतमेतनिवासस्थलं विभाव्यते। श्रीमत्कुंदकुंदशिष्या गुणनंदिदेवेद्रादयोऽपि कर्णाटकप्रांत एव समभूवन्नतोऽपि भगवान् कुदकुदः कर्णाटकप्रांतस्थ एव विनिश्चीयते
पांगलगोत्रोद्भवश्रीमपंडिततात्यानेमिनाथमहोदयैर्विलिखिता काचित्कुंदकुंदाचार्यविषयिणी कथा ज्ञानप्रबोधाभिधभाषाग्रंथाधारतः । तत्र प्रकटीचक्रे श्रीमत्पांगलमहोदयैः कुदकुंदभगवान् मालवप्रांतांतर्गत वारापुरवास्तव्यः परंतु केवलतत्कथातिरिक्तं वारापुरनिवासित्वे न नियामकं किमप्यनवयं गमकं ।
समयविचारः समवगम्यते किलेदं नंदिसंघपट्टावलीतो यत् ४९ तमायां वैक्रमशताब्दी न्यवासीद्भगवान् कुंदकुंदो नंदिसंघपट्टे । स च तदावे त्रायस्त्रिंशद्वर्षीयः। एवं च मासदशकपूर्वकैकपंचाशद्वर्षाणि संघ संशास्य १०१ तमसंवत्सरसन्निकृष्टे समन्वभूदव्ययसुखं । परंतु विचारनिकषायमाणे विनिर्णीतः किलायं समयकलधौतः सर्वथा कल्पित एव प्रतिभाति ।
जिनवरमहावीरनिर्वाणप्रापणानंतरं समजनिष्ट ६८३ वर्षपर्यंतमंगज्ञानप्रवृत्तिरत्र । अनंतरं च सा तिरोबभूव इति श्रुतावतारग्रंथाधारतः समवगम्यते । इत्थं तद्व्यवस्था१ इंद्रभूतिगणधरः (केवली)
१२ वर्षाणि २ सुधर्माचार्यः
१२ वर्षाणि ३ जम्बूस्वामी
३८ वर्षाणि ४ विष्णुप्रभृतिपंचश्रुतकेवलिनः ।
१०० वर्षाणि ५ विशाखदत्तप्रभृतयः-एकदशांगदशपूर्वपाठिनः १८३ वर्षाणि
नक्षत्रादय एकादशांगपाठिनः २२० वर्षाणि सुभद्रादय आचांरांगपाठिनः ११८ वर्षाणि
महावीरभगवनिर्वार्णानंतरं ६८३ वर्षपर्यंत जागर्तिस्मांगप्रवृत्तिरिति-हरिवंशपुराणप्रशस्तावीप लिखितमास्ते । यथा
त्रयः क्रमात्केवलिनो जिनात्परे द्विषष्टिवर्षांतरभाविनोऽभवन् । ततः परे पंच समस्तपूर्विणस्तपोधना वर्षशतांतरे गताः ॥ १॥
ज्यशीतिके वर्षेशते तु रूपयुक् दशैव गीता दशपूर्विणः शते । १ त्रिलोकसारादिप्रथप्रामाण्या त्सुनिश्चितमेतत् ४७० तमवैक्रमसंवत्सरपूर्व मुमुचे भगवन्महावीरः । अस्म
त्रिनिर्दिष्टसमयः श्वेतांबरंथश्वपि निश्चितः। २ पहावलीलेखकमतात्-लोहाचार्यानंतरभाविनः-अद्विलि-माघनंदि-भूतवलि-पुष्पदंताचार्या अप्यंगशानिनः समभूवन किंतु प्रमाणाभावान्न तचारु ।
३ गुणधरधरसेनान्वयगुर्वोः पूर्वापरक्रमोऽस्माभिः । न ज्ञायते तदन्वयकथकागममुनिजनाभावात् ॥११॥
भुतावतारः।

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250