Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 147
________________ १४२ सनातनजैनग्रंथमालायां‘एवं व्यवहारनयः पतिषिद्धो जानीहि निश्चयनयेन । निश्चयनयसंलीना मुनिनः प्राप्नुवंति निर्वाणं ॥२९६॥ तात्पर्यवृत्ति:--एवं ववहारणओ पडिसिद्धो जाण णिच्छयणयेण एवं पूर्वोक्तप्रकारेण परद्रव्याश्रितत्वाद् व्यवहारनयः प्रतिषिद्ध इति जानीहि । केन ? कर्तृभूतेन शुद्धात्मद्रव्याश्रितनिश्चयनयेन। कस्मात् ? णिच्छयणयसल्लीणा मुणिणो पावंति णिवाणं निश्चयनयमालीना आश्रिताः स्थिताः संतो मुनयो निर्वाणं लभंते यतः कारणादिति । किं च यद्यपि प्राथमिकापेक्षया प्रारंभप्रस्तावे सविकल्पावस्थायां निश्चयसाधकत्वाद् व्यवहारनयः सप्रयोजनस्तथापि विशुद्धज्ञानदर्शनलक्षणे शुद्धात्मनि स्थितानां निष्प्रयोजन इति भावार्थः । कथं निष्प्रयोजनः ? इति चेत् कर्ममिरमुच्यमानेनाभव्येनाण्याश्रियमाणत्वात् । आत्मख्याति:--आत्माश्रितो निश्चयनयः, पराश्रितो व्यवहारनयः । तत्रैवं निश्चयनयेन पराश्रित समस्तमध्यवसानं बंधहेतुत्वेन मुमुक्षोः प्रतिषेधयता व्यवहारनय एव किल प्रतिषिद्धः, तस्यापि पराश्रितत्वाविशेषात् । प्रतिषेध्य एवं चायं, आत्माश्रितनिश्चयनयाश्रितानामेव मुच्यमानत्वात् , पराश्रितव्यवहारनयस्यैकातेनामुच्यमानेनाभव्येनाश्रियमाणत्वाच्च । कथमभव्येनाश्रियते व्यवहारनयः ? इति चेत् । वदसमिदी गुत्तीओ सीलतवं जिणवरेहि पण्णतं । कुव्वंतोवि अभविओ अण्णाणी मिच्छदिठ्ठीय ॥२९७॥ व्रतसमितिगुप्तयः शीलतपो जिनवरैः प्रज्ञप्तं । कुर्वन्नप्यभव्योऽज्ञानी मिथ्यादृष्टिस्तु ॥२९७॥ तात्पर्यवृत्तिः–वदसमिदी गुत्तीओ सीलतवं जिणवरेहि परिकहिदं व्रतसमितिगुप्तिशील तपश्चरणादिकं जिनवरैः प्रज्ञप्तं कथितं कुव्वंतोवि अभव्यो अण्णाणी मिच्छदिडीओ मंदमिथ्यात्वमंदकषायोदये सति कुर्वन्नप्यभव्यो जीवस्त्वज्ञानी भवति मिथ्यादृष्टिश्च भवति । कस्मात् ? इति चेत् मिथ्यात्वा दिसप्तप्रकृत्युपशमक्षयोपशमक्षयाभावात् शुद्धात्मोपादेयश्रद्धानाभावात् । इति अथ तस्यैकादशांगश्रुतज्ञानमस्ति कथमज्ञानी ? इति चेत् आत्मख्तातिः - शीलतपःपरिपूर्ण त्रिगुप्तिपंचसमितिपरिकलितमहिंसादिपंचमहाव्रतरूपं, व्यवहारचारित्रं,अभव्योऽपि कुर्यात् तथापि स निश्चारित्रोऽज्ञानी मिथ्यादृष्टिरेव निश्चयचारित्रहेतुभूतज्ञानश्रद्धाशून्यत्वात्। तस्यैकादशांगज्ञानमस्ति ? इति चेत् मोक्खं असदहंतो अभवियसत्तो दु जो अधीएज । पाठो ण करेदि गुणं असदहंतस्स णाणं तु ॥२९८॥ मोक्षमश्रद्दधानोऽभव्यसत्वस्तु योधीयीत । पाठो न करोति गुणमश्रद्दधानस्य ज्ञानं तु ॥२९८॥ तात्पर्यवृत्तिः-- मोक्खं असदहतो अभविय सत्तो हुँ जो अधीयेज मोक्षमश्रदधानः सन्नभव्यजीवो यद्यपि ख्यातिपूजालाभार्थमेकादशांगश्रुताध्ययनं कुर्यात् पाठो ण करेदि गुणं तथापि तस्य शास्त्रपाठः शुद्धात्मपरिज्ञानरूपं गुणं न करोति किंकुर्वतस्तस्य ? असदहंतस्य णाणं तु अश्रद्दधतोऽरोच मानस्य । किं ? ज्ञानं । कोऽर्थः ? शुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपेण निर्विकल्पसमाधिना प्राप्यं गम्यं पिच्छयणयासिदा पुण पाठायमात्मरख्याती।

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250