Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 157
________________ १५२ सनातनजनग्रंथमालायांयथा बंधश्छित्वा च बंधवद्धस्तु पामोति विमोक्षं। . तथा बंधश्छित्वा च जीवः पामोति विमोक्षं ॥३२०॥ तात्पर्यवृत्तिः-जह बंधे मुत्तूणय बंधणवदीय पावदि विमोक्खं तह बंधे मुतणय जीवो संपावदि विषोक्खं यथा बंधनबद्धः कश्चित्पुरुषो रज्जुवंधं शृंखलाबंधं काष्ठनिगलबंधं वा कमपि बंधं छित्त्वा कमपि भित्त्वा कमपि मुक्त्वा स्वकीयविज्ञानपौरुषवलेन मोक्षं प्राप्नोति । तथा जीवोऽपि वीतरागनिर्विकल्पस्वसंवेदन ज्ञानयुद्धेन बंधं छित्त्वा द्विधाकृत्वा भित्त्वा विदार्य मुवत्वा छोटयित्वाच निजशुद्धात्मोपलंभस्वरूपमोक्षं प्राप्नोतीति । अत्राह शिष्यः प्राभृतग्रंथे यन्निर्विकल्पस्वसंवेदनज्ञानं भण्यते तन्न घटते कस्मात् । इति चेत् तदुच्यते-सत्तावलोकनरूपं चक्षुरादिदर्शनं यथा जैनमते निर्विकल्पं कथ्यत तथा बौद्धमते ज्ञानं निर्विकल्पं भण्यते परंतु तन्निर्विकल्पमपि विकल्पजनकं भवति । जैनमते तु विकल्पस्योत्पादकं भवत्येवं न किंतु स्वरूपेणैव सविकल्पमिति तथैव स्वपरप्रकाशकं चेति । तत्र परिहारः-कथंचित्सर्विकल्पमच कथं चिन्निर्विकल्पं च । तद्यथा यथा विषयानंदरूपं सरागस्वसंवेदनज्ञानं सरागसंवित्तिविकल्परूपेण सविकल्पमपि शेषानीहितसूक्ष्मविकल्पानां सद्भावेऽपि सति तेषां मुख्यत्वं नास्ति तेन कारणेन निर्विकल्पमपि भण्यते । तथापि स्वशुद्धात्मसंवित्तिरूपं वीतरागस्वसंवेदनज्ञानमपि स्वसंवित्त्याकारकविकल्पेन सविकल्पमपि बहिविषयानीहितसूक्ष्मविकल्पानां सद्धावेऽपि सति तेषां मुख्यत्वं नास्ति तेन कारणेन निर्विकल्पमपि भण्यते एत एवेहापूर्वस्वसंवित्त्याकारांतर्मुख्यप्रतिभासेऽपि बहिर्विषयानीहित सूक्ष्मविकल्पा अपि संति तत एवकारणात् स्वपरप्रकाशकं च सिद्धं इदं निर्विकल्पसविकल्पस्य । तथैव स्वपरप्रकाशकस्य च ज्ञानस्य च व्याख्यान यथागमाध्यात्मतर्कशास्त्रानुसारेण विशेषेण व्याख्यायते तदा महान् विस्तरो भवति संचाध्यास्मशास्त्रत्वान्न कृतः । एवं भोक्षपदार्थसंक्षेपसूचनार्थ प्रथमस्थले गाथासप्तकं गतं । अथ किमयमेव मोक्षमार्ग ! इति चेत् आत्मख्यातिः-कर्मबद्धस्य बंधच्छेदो मोक्षहेतुः, हेतुत्वात् निगडादिबद्धस्य बंधच्छेदवत् एतेन उभयेऽपि पूर्व आत्मबंधयोधिाकरणे व्यापार्यते । किमययेव मोक्षहेतुः ! इतिचेत् । वंधाणं च सहावं वियाणिदुं अप्पणो सहावं च । वंधे सु जोण रजदि सो कम्मविमुक्खणं कुणदि ॥३२१॥ बंधानां च स्वभावं विज्ञायात्मनः स्वभावं च । बंधेषु यो न रज्यते स कर्मविमोक्षणं करोति ॥३२१॥ तात्पर्यवृत्तिः-वंधाणं च सहावं बियाणिदुं भावबंधानां मिथ्यात्वरागादीनां स्वभावं ज्ञात्वा कथं ज्ञात्वा ! मिथ्यात्वस्वभावो हेयोपादेयविषये विपरीताभिनिवेशो भण्यते रागादीनां च स्वभावः पंचेंद्रियविषयेष्विष्टानिष्टपरिणाम इति । न केवलं बंधस्वभावं ज्ञात्वा अप्पणो सहावं च अनंतज्ञानादिस्वरूप शद्धात्मनः स्वभाव च ज्ञात्वा वंधेसु जो ण रजदि द्रव्यबंधहेतुभूतेषु मिथ्यात्वरागादिभावबंधेषु निर्विकल्पसमाधिवलेन यो म रज्यते सो कम्मविमोक्खणं कुणदि स कर्मविमोक्षणं करोति । ___ अथ केन कृत्वात्मबंधो द्विधा भवति ! इतिचेत् ! - आत्मख्याति:-य एव निर्विकारचैतन्यचमत्कारमात्रमात्मस्वभावं तद्विकारकारकं बंधानां च स्वभावं विज्ञाय बंधेम्यो विरमति स एव सकलकर्ममोक्षं कुर्यात् । एतेनात्मबंधयोद्विधाकरणस्य मोक्षहेतुत्वं नियम्यते। केनात्मबंधो द्विधा क्रियते ! इतिचेत्

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250