Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 163
________________ सनातन जैनप्रथमालायां 'आत्मख्यातिः: - यथात्र लोके य एव परद्रव्यग्रहणलक्षणमपराधं करोति तस्यैव बेक्शंका समवति । यस्तु शुद्धः सन् तं न करोति तस्य सा न संभवति । तथात्मापि य एवाशुद्धः सन् परद्रव्यग्रहणलक्षणमपराधं करोति तस्यैव बंधशंका संभवति यस्तु शुद्धः संस्तं न करोति तस्य सा न संभवति, इति नियमः अतः सर्वथा सर्वपरकीयभावपरिहारेण शुद्ध आत्मां गृहीतव्यः, तथा सत्येव निरपराधत्वात् । ११८ कोहि नामायमपराध: ? ----- संसिद्धिराधसिद्धी साधिदमाराधिदं च एयट्ठो । अवगदराघो जो खलु चेदा सो होदि अवराहो ||३३२ ॥ जो पुण णिरवराहो चेदा णिस्संकिओ दु सो होदि । आराणाए णिचं वद्वेहिं अहं तु जाणतो ॥ ३३३॥ संसिद्धिरापसिद्धं साधितमाराधितं चैकार्थं । अपगतराधो यः खलु चेतयिता स भवत्यपराधः ॥ ३३२ ॥ यः पुनर्निरपराधश्चेतयिता निश्शंकितस्तु सं भवति । आराधनया नित्यं वर्तते, अहमिति जानन् ||३३३|| तात्पर्यवृत्तिः - संसिद्धिराघसिद्धी साधिदमाराधिदं च एयट्ठो कालत्रयवर्तिसमस्तमिथ्यात्वविषयकषायादिविभावपरिणामरहितत्वेन निर्विकल्पसमाधौ स्थित्वा निजशुद्धात्माराधनं सेवनं राधइत्युघ्यते संसिद्धिः सिद्धिरिति साधितमित्याराधितं च तस्यैव राधशब्दस्य पर्यायनामानि । अवगदराघो जो खलु चेदा सो होदि अवराहो अपगतो विनष्टो राधः शुद्धात्माराधना यस्य पुरुषस्य स पुरुषवा भेदेन भवत्यपराधः । अथवा अपगतोविनष्टो राधः शुद्धात्माराधः शुद्धात्माराधना यस्य रागादिविभावपरिणामस्य स भवत्यपराधः सहापराधेन वर्तते यः स सापराधः चेतयितात्मा तद्विपरीत त्रिगुप्तिसमाधिस्थो निरपराध इति । अथ हे भगवन् किमनेन शुद्धात्माराधनाप्रयासेन यतः प्रतिक्रमणाद्यनुष्ठानेनैव निरपराधो भक्त्यात्मा, कस्मात् ? इति चेत् सापराधस्याप्रतिक्रमणादेर्दोपशब्दवाच्यापराधाविनाशकत्वेन विषकुंभवे सति प्रतिक्रमणा देर्दोषशब्दवाच्यापराधविनाशकत्वेनामृतकुंभत्वात् इति तथा चोक्तं चिरंतनप्रायश्चितग्रंथे— अपडिक्कमणं अपडिसरणं अप्पडिहारो अधारणा चेव । अणियत्तीय अणिदा अगरुहा सोहीय विसकुंभो ॥ १ ॥ पडकमणं पडसरणं पडिहरणं धारणा णियत्तीय । जिंदा गरुहा सोही अट्ठविहो अमयकुंभोदु ॥ २ ॥ अत्र पूर्वपक्षे परिहारः - आत्मख्यातिः — परद्रव्यपरिहारेण शुद्धस्यात्मनः सिद्धिः साधनं वा राधः, अपगतो राधो यस्य भावस्य सोऽपराधस्तेन सह यश्चेतयिता वर्तते स सापराधः स तु परद्रव्यग्रहणसद्भावेन शुद्धात्मसिद्ध्यभावा द्वंधशंकासंभवे सति स्वयमशुद्धत्वादनाराधक एव स्यात् । यस्तु निरपराधः स समग्रपरद्रव्यपरिहारेण शुद्धात्मासद्धिसद्भावाद्बधशंकाया असंभवे सति, उपयोगैकलक्षणशुद्ध आत्मैक एवाहमिति निश्चिन्वन् नित्यमे शुद्धात्मसिद्धिलक्षणयाराधनया वर्तमानत्वादाराधक एव स्यात् । १ नेयं गाथात्र स्वात्पर्यवृत्तौ—

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250