Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 148
________________ समयप्राभृतं । १४३ शुद्धात्मस्वरूपमिति । कस्मान्न श्रद्धत्ते ! दर्शनचारित्रमोहनीयोपशमक्षयोपशमक्षयाभावात् । तदपि कस्मात् ? अभव्यत्वादिति भावार्थः। अथ तस्य पुण्यरूपधर्मादिश्रद्धानमस्तीति चेत् आत्मख्यातिः--मोक्षं हि न तावदभव्यः श्रद्धत्ते शुद्धज्ञानमयात्मज्ञानशून्यत्वात् । ततो ज्ञानमपि नासौ श्रद्धत्ते, ज्ञानमश्रद्दधानश्चाचाराद्येकादशांगं श्रुतमधीयानोऽपि श्रुताध्ययनगुणाभावान्न ज्ञानी स्यात् स किल गुणः श्रुताध्ययनस्य यद्विविक्तवस्तुभूतज्ञानमयात्मज्ञानं तच्च विविक्तवस्तुभूतं ज्ञानमश्रद्दधानस्याभव्यस्य श्रुताध्ययनेन न विधातुं शक्येत ततस्तस्य तद्गुणाभावः, ततश्च ज्ञानश्रद्धानाभावात् सोऽज्ञानीति प्रतिनियतः। तस्य धर्मश्रद्धानमस्तीति चेत् - सदहदिय पत्तयदिय रोचेदिय तह पुणोवि फासेदि । धम्म भोगणिमित्तं णहु सो कम्मक्खयणिमित्तं ॥२९९॥ श्रद्दधाति प्रत्येति च रोचयति तथा पुनश्च स्पृशति । धर्म भोगनिमित्तं न खलु स कर्मक्षयनिमित्तं ॥२९९॥ तात्पर्यवृत्तिः-सद्दहदि श्रद्धत्ते च पत्तेदिय ज्ञानरूपेण प्रत्येति च प्रतीति परिच्छित्तिं करोति रोचेदिय विशेषश्रद्धानरूपेण रोचते च तह पुणोवि फासदिय तथा पुनःस्पृशति च अनुष्ठानरूपेण कं? धम्म भोगणिमित्तं अहमिंद्रादिपदवीकारणत्वादिति मत्वा भोगाकांक्षारूपेण पुण्यरूपं धर्म ण हु सो कम्मक्खयणिमित्तं नच कर्मक्षयनिमित्तं शुद्धात्मसंवित्तिलक्षणं निश्चयधर्ममिति । अथ कीदृशौ तौ प्रतिषेध्यप्रतिषेधको व्यवहारनिश्चयनयाविति चेत् आत्मख्यातिः-अभव्यो हि नित्यकर्मफलचेतनारूपं वस्तु श्रद्धत्ते, नित्यज्ञानचेतनामात्रं न तु श्रद्धत्ते नित्यमेव भेदविज्ञानानहत्वात् । ततः स कर्ममोक्षनिमित्तं ज्ञानमात्रं भूतार्थ धर्म न श्रद्धते भोगनिमित्तं शुभकर्ममात्रमभूतार्थमेव श्रद्धत्ते । तत एवासौ, अभूतार्थधर्मश्रद्धानप्रत्ययनरोचनस्पर्शनैरुपरितनप्रैवेयकभोगमात्रमास्कंदन्न पुनः कदाचनापि विमुच्यते ततोऽस्य भूतार्थधर्मश्रद्धानाभावात् , श्रद्धानमपि नास्ति एवं सति तु निश्चयनयस्य व्यवहारनयप्रतिषेधो युज्यत एव ।। कीदृशौं प्रतिषेध्यप्रतिषेधको व्यवहारनिश्चयनयाविति चेत् आयारादीणाणं जीवादीदंसणं च विण्णेयं । छजीवाणं रक्खा भणदि चरितं तु ववहारो ॥३०॥ आदा खु मज्झणाणे आदा मे दसणे चरित्ते य । आदा पञ्चक्खाणे आदा मे संवरे जोगे ॥३०१॥ . आचारादिज्ञानं जीवादिदर्शनं च विज्ञेयं । षद्जीवानां रक्षा भणति चरित्रं तु व्यवहारः ॥३०॥ आत्मा खलु मम ज्ञानमात्मा मे दर्शनं चरित्रं च। आत्मा प्रत्याख्यानं आत्मा मे संवरो योगः ॥३०॥ तात्पर्यवृत्तिः-आयारादीणाणं आचारसूत्रकृतमित्यादि एकादशांगशब्दशास्त्रज्ञानस्याश्रयत्वात्कारणत्वाद् व्यवहारेण ज्ञानं भवति । जीवादी दंसणं च विण्णेयं जीवादिनवपदार्थः श्रद्धानविषयः सम्य १ भात्मख्याती छजीवाणं च तहा इति पाठः ।

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250