Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 129
________________ १२४ सनातनजैनग्रंथमालायांत्यक्तं येन फलं स कर्म कुरुते नेति प्रतीमो वयं किन्त्वस्यापि कुतोऽपि किंचिदपि तत्कर्मावशेनापतेत् । तस्मिन्नापतिते त्वकंपपरमज्ञानस्वभावे स्थितो ज्ञानी किं कुरुतेऽथ किं न कुरुते कर्मेति जानाति कः॥१४॥ सम्यग्दृष्टय एव साहसमिदं कर्तुं क्षमंते परं यद्वजेऽपि पतत्यमी भयचलत्रैलोक्यमुक्ताध्वनि । सर्वामेव निसर्गनिर्भयतया शंकां विहाय स्वयं जानंतः स्वमबध्यबोधवपुषं बोधाच्च्यवंते न हि ॥१४९॥ समादिट्ठी जीवा णिस्संका होति णि भया तेण । सत्तभयविप्पमुक्का जमा तझा दु णिस्संका ॥ २४६ ॥ सम्यग्दृष्टयो जीवा निश्शंका भवंति निर्भयास्तेन । सप्तभयविषमुक्ता यस्मात्तस्मात्तु निश्शंकाः ॥ २४६॥ तात्पर्यवृत्तिः-सम्मादिट्ठी जीवा णिस्संका होति सभ्यग्दृष्टयो जीवाः शुद्धबुद्धकस्वभावनिर्दोषपरमात्माराधनं कुर्वाणाः संतो निश्शंका भवंति यस्मात् कारणात्। णिन्भया तेण तेन निर्भया भवंति सत्तभयविप्पमुक्का जमा यस्मादेव कारणात् , इहलोक-परलोक-अत्राण-अगुप्ति-मरण-वेदना-आकस्मिकसंज्ञितसप्तभयविप्रमुक्ता भवंति तह्मा दु णिस्संका तस्मादेव कारणात् घोरपरीषहोपसर्गे प्राप्तेपि निश्शंकाः शुद्धात्मस्वरूपे निष्कपाः संतः शुद्धात्मभावनोत्थवीतरागसुखानंदतृप्ताश्च परमात्मस्वरूपान्न प्रच्यवंते पांडवादिवत्। - अथानंतरं वीतरागसम्यग्दृष्टर्निशंकाद्यष्टगुणाः नवतरबंध निवारयति ततः कारणाद्वंधो नास्ति किंतु संवरपूर्विका निर्जरैव भवतीति प्रतिपादयति आत्मख्याति:-येन नित्यमेव सम्यग्दृष्टयः सकलकर्मनिरभिलाषाः संतः, अत्यंतकर्मनिरपेक्षतया वर्तते तेन नूनमेते, अत्यंत निश्शंकदारुणाध्यवसायाः संतोऽत्यंतनिर्भयाः संभाव्यते । लोकः शाश्वत एक एष संकलव्यक्तो विविक्तात्मनः, चिल्लोकं स्वयमेव केवलमयं यल्लोकयत्येककः। लोकोऽयं न तवापरस्तव परस्तस्यास्ति तद्भीः कुतो निश्शंकं सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१४९॥ एषैकैव हि वेदना यदचलं ज्ञानं स्वयं वेद्यते निर्भेदोदितवेद्यवेदकवलादेकं सदानाकुलैः । नैवान्यागतवेदनैव हि भवेत्तद्भीः कुतो ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५॥ यत्सन्नाशमुपैति यन्न नियतं व्यक्तेति वस्तुस्थितिमा॑नं सत्स्वयमेव तत्किल ततस्त्रातं किमस्यापरैः । अस्यात्राणमतो न किंचन भवेत्तद्भीः कुतो ज्ञानिनो निःशंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५॥ स्वं रूपं किल वस्तुनोऽस्ति परमा गुप्तिः स्वरूपे न यच्छक्तः कोऽपि परप्रवेष्टुमकृतं ज्ञानं स्वरूपं च नुः । अस्यागुप्तिरतो न काचन भवेत्तद्भीः कुतो ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५२॥ प्राणोच्छेदमुदाहरंति मरणं प्राणाः किलास्यात्मनो ज्ञानं तत्स्वयमेव शाश्वततया नो छिद्यते जातुचित् । तस्यातो मरणं न किंचन भवेत्तद्भीः कुतो ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५३॥ एकं ज्ञानमनाद्यनंतमचलं सिद्ध किलैतत्स्वतो यावत्तावदिदं सदैव हि भवेन्नात्र द्वितीयोदयः । तन्नाकस्मिकमत्र किंचन भवेत्तद्भीः कुता ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५४॥ टंकोत्कीर्णस्वरसनिचितज्ञानसर्वस्वभाजः सम्यग्दृष्टेर्यदिह सकलं नंति लक्ष्माणि कर्म । तत्तस्यास्मिन्पुनरपि मनाकर्मणो नास्ति बंधः पूर्वोपात्तं तदनुभवतो निश्चितं निर्जरैव ॥ जो चत्तारिवि पाए छिंददि ते कॅम्ममोहवाधकरे । सो णिस्संको चेदा सम्मादिट्ठी मुणेदवो ॥ २४७॥ __यश्चतुरेपि पादान् छिनत्ति तान् कर्ममोहवाधाकरान् ।। स निश्शंकश्चेतयिता सम्यग्दृष्टिातव्यः ॥ २४७ ॥ सकलं कालं ब्यक्तः प्रकटः सकलव्यक्त इत्यर्थः । २ एषोऽयं लोकः केवलमयं चिल्लोकं लाकयतीत्यर्थः । ३ खरसः खभानः स्वपरावयोधशत्त्युपेतत्वं तेन चितं व्याप्तमित्यर्थः ॥ ४ आत्मख्यातौ "कम्मवंधमोहकरे" पाठ ।

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250