Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 115
________________ सनातननग्रंथमालातात्पर्यवृत्ति:-कह एम तुज्झ ण हवदि विविहो कम्मोदयफलविवागो कथमेष विविधकर्मोदयफलविपाकस्तवरूपं न भवतीति केनापि पृष्टः तत्रोत्तरं ददाति परदव्वाणुवओगो निर्विकारपरमाह्लादै कलक्षणस्वशुद्धात्मद्रव्यात्प्रथग्भूतानि परद्रव्याणि यानि कर्माणि जीवे लग्नानि तिष्ठति तेषामुपयोग उदयोयं, औपाधिकस्फटिकस्य परोपाधिवत् । न केवलं भावक्रोधादि ममस्वरूपं न भवति, इति णदु देहो हवादि अग्णाणी देहोऽपि मम स्वरूपं न भवति हु स्फुटं कस्मादिति चेत् , अज्ञानी जडवरूपो यतः कारणात् , अहं पुनः, अनंतज्ञानादिगुणस्वरूप इति । अथ सम्यग्दृष्टिः स्वस्वभावं जानन् रागादींश्च मुंचन् नियमाज्ज्ञानवैराग्यसंपन्नो भवति इति कथयति एवं सम्माइट्ठी अप्पाणं मुणदि जाणगसहावं । उदयं कम्मविवागं च मुअदि तचं वियाणंतो ॥२१॥ एवं सम्यग्दृष्टिः आत्मानं जानाति बायकस्वभावं । उदयं कर्मविपाकं च मुंचति तवं विजानन् ।॥ २१२ ॥ तात्पर्यवृत्तिः-एवं सम्माइट्ठी अपाणं मुणदि जाणगसहावं एवं-पूर्वोक्तप्रकारेण सम्यग्दष्टिर्जीवः आत्मानं जानाति, कथंभूतं ! टंकोत्कीर्णपरमानंदज्ञायकैकस्वभावं । उदयं कम्मविवागं मुअ. दि तचं बियाणंतो उदयं पुनर्ममस्वरूपं न भवति कर्मविपाकोयमिति पत्वा मुंचति । किं कुर्वन् सन् ? नित्यानंदैकस्वभावं परमात्मतत्त्वं त्रिगुप्तिसमाधौ स्थित्वा जाननिति । अथ सम्यग्दृष्टिः सामान्येन स्वपरस्वभावमनेकप्रकारेण जानाति आत्मख्याति: - एवं सम्यग्दृष्टिः सामान्येन विशेषेण च परस्वभावेभ्यो भावेभ्यो सर्वेभ्योऽपि विविच्य टंकोत्कीर्णैकजायकस्वभावमात्मनस्तत्त्वं विजानाति । तथा तत्त्वं विजानंश्च स्वपरभावापादानापोहननिष्पाद्य स्वस्य वस्तुत्वं प्रथयन् कर्मोदयविपाकप्रभवान् भावान् सर्वानपि मुंचति। ततोयं नियमात् ज्ञानवैराग्याभ्यां संपन्नो भवति । सम्यग्दृष्टिः स्वयमयमहं जातु बंधो न मे स्यादित्युत्तानोत्पुलकवदना रागिणोप्याचरंतु । आलंबंतां समितिपरतां ते यतोद्यापि पापा आत्मानात्मावगमविरहात्सति सम्यक्त्वरिक्ताः ॥१३॥ सम्यग्दृष्टिः सामान्येन स्वपरावेवं तावजानातिउदयविवागो विविहो कम्माणं वण्णिदो जिणवरेहि । ण दु ते मज्झ सहावा जाणगभावो दु अहमिको ॥२१३॥ उदयविपाको विविधः कर्मणां वर्णितो जिनवरैः । न तु ते मम स्वभावाः झायकभावस्त्वहमेकः ॥ २१३ ॥ तात्पर्यवृत्तिः-उदयविवागो विविहो कम्माणं वण्णिदो जिणवरेहिं उदयविपाको विविधो नानाप्रकारः कर्मणां संबंधी वर्णितः कथितः, जिनवरैः ण दु ते मत्झसहावा जाणगभावो दु अहमिको ते कौदयप्रकारा कर्मभेदा मम स्वभावा न भवंति, इति कस्मात् ? इति चेत् टंकोत्कीर्णपरमानंद शायकैकत्वभावोऽहं यतः कारणात् । सम्यग्दृष्टिः सामान्येन स्वपरस्वरूपावेवं जानाति इति भणितं । कथं समान्यं ? इतिचेत् क्रोधोहं मानोहमित्यादि विवक्षा नास्तीति । तदपि कथमिति चेत् “विवक्षाया अभावः सामान्यमिति वचनात्" । एवं भेदभावनारूपेण ज्ञानवैराग्ययोः सामान्यव्याख्यानमुख्यत्वेन गाथापंचकं गतं । इत ऊर्ध्व गाथादशपर्यंतं पुनरपि ज्ञानवैराग्यशक्तयेोविशेषविवरणं करोति । तद्यथा।

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250