Book Title: Samay Prabhrutam
Author(s): Gajadharlal Jain Shastri
Publisher: Sanatan Jain Granthmalaya

View full book text
Previous | Next

Page 108
________________ समयप्राभृतं । १०३ बनाति तानि उपभोग्यानि तरुणी स्त्री यथा पुरुषस्य ॥१९८ ॥ भूत्वा निरुपभोग्यानि तथा बधाति यथा भवेत्युपभोग्यानि । सप्ताष्टविधानि भूतानि ज्ञानावरणादिभावैः ॥ १९९ ।। एतेन कारणेन तु सम्यग्दृष्टिरवधंको भणितः । भास्रवभावाभावे न प्रत्यया बंधका भणिताः ॥ २०॥ तात्पत्तिः-सव्वे पुव्वणिवद्धा दु पच्चया संति सम्मदिहिस्स सर्वे पूर्वनिबद्धा द्रव्यप्रत्ययाः संति तावत्सम्यग्दृष्टेः । उबोगप्पाओगं बंधते कम्मभावेण यद्यपि विद्यते तथाप्युपयोगेन प्रायोग्यं तत्कालोदयप्रायोग्यकर्मतापन्नं कर्म बध्नति । फेन कृत्वा ! भावेन रागादिपरिणामेन नचास्तित्वमात्रेण बंधकारणं भवतीति । संतावि णिरवमोजा वाला इच्छी जहेव पुरुसस्स विद्यमानान्यपि कर्माणि कचित्प्राकृते लिंगव्यभिचारोऽपि, इति वचनाम पुंसकलिंगे पुलिंगनिर्देशः । पुलिंगेऽपि नपुंसक लिंग निर्देशः । कारके कारकांतर निर्देशो भवति, इति । तानि कर्माणि उदयात्पूर्व निरुपभोग्यानि भवति । केन दृष्टांतेन ? वाला स्त्री यथा पुरुषस्य । वंधदि ते उवभोजे तरुणी इच्छी जह णरस्स तानि कर्माणि उदयकाले उपभोग्यानि भवंति । रागादिभावेन नवतराणि च वनंति । कथं ? यथा तरुणी स्त्री बरस्येति । अथ तमेवार्थ दृढ़यति । उदयात्पूर्व निरुपभोग्यानि भूत्वा कर्माणि स्वकीयगुणस्थानानुसारेण, उदयकाले प्राप्य यथाभोग्यानि भवंति, तथा रागादिभावेन परिणामेन अयुष्कबंधकाले अष्टविधभूतानि शेषकाले सप्तविधानि ज्ञानावरणादिद्रव्यकर्मभावेन पर्यायेण नवतराणि बध्नति नचास्तित्वमात्रेणेति । रागादिभावास्रवस्याभावे द्रव्यप्रत्यया अस्तित्वमात्रेण बंधकारणं न भवंति। एतेन कारणेन सम्यग्दृष्टिरबंधको भणित इति । किं च विस्तारः, मिथ्यादृष्टयपेक्षया चतुर्थगुणस्थाने सरागसम्यग्दृष्टिः, त्रिचत्वारित्प्रकृतीनाम बंधकः । सप्ताधिकसप्ततिप्रकृतीनामल्पस्थित्यनुभागरूपाणां बंधकोऽपि संसारस्थितिच्छेदं करोति । तथा चोक्तं " सिद्धांते द्वादशांगावगमस्तत्तीवभक्तिरनिवृत्तिपरिणामः केवलिसमुद्धातश्चेति संसारस्थितिघातक रणानि भवंति" तद्यथा तत्र द्वादशांगश्रुतविषये, अवगमो ज्ञानं व्यवहारेण बहिर्विषयः । निश्चयेन तु वीतरागस्वसंवेदनलक्षणं चेति । भक्तिः पुनः सम्यक्त्वं भण्यते व्यवहारेण सरागसम्यग्दृष्टीनां परमेष्ठयाराधनारूपा । निश्चयेन सम्यग्दृष्टीनां शुद्धात्मतत्त्वभावनारूपा चेति । न निवृत्तिरनिवृत्तिः शुद्धात्मस्वरूपा दचलनं, एकाग्रपरिणतिरिति । तत्रैवं सति द्वादशांगावगमो निश्चयव्यवहारज्ञानं जातं । भक्तिस्तु निश्चयव्यवहारसम्यक्त्वं जातं । अनिवृत्तिपरिणामस्तु सरागचारित्रानंतरं वीतरागचारित्रं जातमिति सम्यग्दनिज्ञानचरित्राणि भेदाभेदरत्नत्रयरूपेण संसारविच्छित्तिकारणानि भवंति । केषां ? छद्मस्थानामिति । केवलिनां तु भगवतां दंडकपाटप्रतरलोकपूरणरूपकेवलिसमुद्धातः संसारविच्छित्तिकारणमिति भावार्थः । एवं द्रव्यप्रत्यया विद्यमाना अपि रागादिभावास्रवाभावे बंधकारणं न भवंतीति व्याख्यानमुख्यत्वेन गाथा चतुष्टयं गतं । अथ यत एव कर्मबंधहेतुभूतरागद्वेषमोहाः, ज्ञानिनो न संति । तत एव तस्य कर्मबंधो नास्तीति कथयति आत्मख्याति:-यतः सदवस्थायां तदात्वपरिणीतवालस्त्रीवत् पूर्वमनुपभोग्यत्वेऽपि विपाकावस्थायां प्राप्तयौवनपूर्वपरिणीतस्त्रीवत् उपभोग्यप्रायोग्यं पुद्गलकर्मद्रव्यप्रत्ययाः संतोऽपि कर्मोदयकार्यजीवभावसद्भावादेव बध्नति । ततो ज्ञानिनो यदि द्रव्यप्रत्ययाः पूर्वबद्धाः संति । संतु। तथापि स तु निरास्रव एव कर्मोदयकार्यस्य रागद्वेषमोहरूपस्यास्त्रवभावस्याभावे द्रव्यप्रत्ययानामबंधहेतुत्वात् । विजहति नहि सत्ता प्रत्ययाः पूर्वबद्धाः समयमनुसरंतो यद्यपि द्रव्यरूपाः । तदपि सकलरागद्वेषमोहव्युदासात्, अवतरति न जातु ज्ञानिनः कर्मबंधः ॥१२४॥ रगद्वेषक्मिोहानां ज्ञानिनो यदसंभवः । तस एव म बंधोख ते हि बंधस्य कारणं ॥१२॥

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250