Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 20
________________ “ " निरीहताद्यैः सुगुणैर्गरीयान् वैरङ्गिकाणां निकरे वरीयान् । राद्धान्तवेत्ता जितशम्बरारिर्जेजीयतां सद्गुरुनेमिसूरिः ॥३॥ " प्रकृष्टो गुरुर्गरीयान् । 'गुणाङ्गाद्वेष्ठेयसू' (सि. ७-३-९) इति 'ईयसू' प्रत्यय: । 'प्रिय-स्थिर - स्फिरोरुगुरु ०' (सि. ७-४-३८) इति गरादेशे रूपम् । एवमूरु- शब्दस्य वरीयान् । विरागं नित्यमर्हतीति वैरङ्गिकः । 'विरागाद्विरङ्गश्च' (सि. ६-४- १८३ ) इतीकणि विरङ्गादेशे च रूपम् । राद्धान्तः सिद्धान्तस्तं वेत्तीति राद्धान्तवेत्ता । शम्बरारिः कामदेवः । 'शम्बरारिर्मनसिज: ' इत्यमर: । जिधातोर्यङ्प्रत्ययान्तं रूपं जेजीयतामिति । पुनः पुनर्जयत्वित्यर्थः । वृत्तमुपजातिः ॥३॥ Jain Education International 4 येषां यशः क्षीरनिधिं मथित्वा लब्ध्वा च नानागुणमौक्तिकानि । वित्ताः सवित्ताश्च भवन्ति भव्या वित्ताः ख्याता इत्यर्थः । सवित्ताः इन्द्रवज्रा ||४|| स्तान् नेमिसूरीन् प्रणमामि भक्त्या ॥ ४ ॥ ११ "L = वित्तं धनं-प्रकरणाद् गुणरूपं तद्वन्तो भवन्तीत्यर्थः । अनेकसद्ग्रन्थवरप्रणेता जिनेन्द्रतीर्थस्य च योऽस्ति नेता । प्रेक्षापरास्तत्रिदिवेशसूरि र्भूयात् स भूत्यै गुरुनेमिसूरिः ॥५॥ ११ प्रेक्षया-बुद्ध्या परास्त:-पराभूतः त्रिदिवेशानाममराणां सूरिगुरुः - बृहस्पतिर्येन सः । उपजातिः ॥५॥ 44 वृषालिसम्पूजितसद्वृषस्य प्रपोषको यश्च जिताक्षरक्षाः । मनीषिमुख्यं गतमोहमायं नंनंमि तं नेमिगुरुं सुभक्त्या ॥६॥ ५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130