Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तयाऽभ्यासं कुरु, इतस्ततो भ्रमणेन तु तवाऽमूल्य: समयो निष्फल एव व्ययीभविष्यति ।" तदीया हितशिक्षा तस्मै भृशमरोचत । नरोत्तमदासेन चाऽपि तज्जनकादीन् बोधयित्वा तस्य गुरुभगवतां पार्श्वेऽभ्यासार्थं गमनं निश्चायितम्। __ततो निर्णीते शुभदिवसे सर्वेऽपि स्वजना सम्बन्धिनश्च सम्भूयाऽपूर्वानन्दोल्लासेन कुङ्कमतिलककरण-श्रीफलार्पणादिपूर्वकं सम्मान्याऽमृतलालं प्रस्थापयामासुः । यद्यपि तेषां सर्वेषां हृदि अमृतलालोऽयं गुरूणां समीपेऽध्ययनार्थं गच्छतीत्येतावन्मात्रमेव सञ्जानमासीत् , किन्तु अमृतलालस्तु स्वमनसि स्वकीयदीक्षार्थमेवेदं प्रस्थानमिति निश्चितवानासीत् । प्रयाणसमये स्वस्मिन् गाढस्नेहवती भगिनी चम्पा बाढं रोदनं कृतवती तेन च सर्वेऽपि गद्गदा: सञ्जाताः । ततो जनकादीनामाशीर्वादं गृहीत्वा नमस्कारमहामन्त्रस्मरणपूर्वकं गृहान्निःसृत्या-ऽग्निरथयानद्वारा पिण्डवाडानगरं प्राप्तः । तत उष्ट्रमारुह्य ब्राह्मणवाडातीर्थमागत्य चरमतीर्थपति-श्रीमहावीरस्वामिनां दर्शनपूजनादिकं कृतवान् । ततः सीरोहीनगरं गत्वा क्रमशो जावालनगरमासदत् । तत्रैव पूज्यगुरुभगवन्तो विराजमाना आसन् । अतः स शीघ्रमुपाश्रयं गत्वा शासनसम्राजां गुरुभगवतां दर्शन-वन्दनादिकं कृत्वा तादृशं वचनातिगमाह्लादं प्राप्तवान् येन क्षणमात्रादेव तस्याऽध्वखेदो व्यपनुनोद । तदर्शनं हि तस्य, बुभुक्षाक्षामकुक्षेः घृतपूरभोजनमिव, तीव्रपिपासाकुलितस्य शीतलमधुरजलपानमिव, मध्यन्दिनदिनकरखरकिरणसन्तप्तस्य विशालवटवृक्षच्छायामिव सञ्जातम् । गुरुचरणारविन्दयोः प्रणामं कृत्वाऽऽशिषं च लब्ध्वा धन्यम्मन्यः सोऽतीवाऽमोदत।
पूज्यगुरुभगवताऽपि च पीयूषवृष्टयेव निजाप्रतिमप्रसादपूर्णदृष्ट्या स काममभिषिच्यत । ततो पृष्टवन्तो भगवन्तस्तं मधुरवचसा - "र! आगतस्त्वम् ? दीक्षार्थं सज्जीभूयाऽऽगतोऽसि न वा?" __ "आम् आम् भगवन्तः! भवतां प्रसादेन पूर्णतया सज्जीभूतोऽस्मि । अतो भवद्भिः क्षणमात्रस्याऽपि विलम्बो नैव कर्तव्यः।" तस्यैतादृशोत्साहपूर्णवचनैर्गुरुवरा अन्येऽपि च सर्वे भृशं प्रीणिताः।
ततो गुरुभिः पन्न्यासश्रीउदयविजयगणीनाहूयाऽमृतलालस्य दीक्षामुहूर्तं निरीक्षितुमाज्ञप्तम् । तैश्च पञ्चाङ्गमवलोक्य विज्ञप्तम् - "गुरुवरा:! एतदर्थं श्वो दिनमर्थात् ज्येष्ठकृष्णषष्ठीतिथिरेवाऽत्यन्तं शुभतिथिर्वर्तते।" एतन्निशम्याऽमृतलालस्य मनोमयूर: कामं नर्तितुमारब्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.ofg

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130