Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 109
________________ च) तेन सिध्यतः। गौः जलमिश्रणेन रहितं शुध्धं दुग्ध ददाति । जलं तु तत्र विक्रेतारो मिश्रयन्ति । उपायोऽस्त्यत्र यद् दुग्धदोहन कालात् पूर्वं यदि नाम गां जलं पाययेत् नर्हि बहिस्तः जलमिश्रणस्याऽपराधो न भवेत् । किन्तु एषा रहस्यवार्ताऽस्ति, अतो न सर्वत्र निःशङ्कं वा वक्तुं योग्या। गौर्दुग्धं ददाति किन्तु न पिबति परं मनुष्यस्तु दुग्धं पिबति न ददाति । यच्च दुग्धं स परेभ्यो ददाति तदपि गोरेव । अत एव गौरेव परोपकारी कथितुं योग्यः । गौः तृणान्यत्ति । यद्यपि एतद्विधानं तु प्राचीनां परम्परामनुसृत्याऽत्र कृतमस्ति । यतोऽधुना तु केषाञ्चिद् अधिकारिणां जनानामपि तद् भोजनं (?) जातमस्ति इति श्रूयते वाच्यते चाऽपि । गौः सकाशात् प्रभूतं शिक्षणीयमस्ति । मनुष्यजातेन तु तस्य सकाशात्, उत्थितः सन् चरंश्च कथं भक्ष्यते, इति शिक्षणं प्राप्तं, प्रसारितमपि च सर्वत्र । किन्तु एकत्र न स सफलोऽभवत्, यद् यथा गौरुच्चर्वणं कर्तुं शक्तः तथा नाऽयम्। जन्मप्रभृति मरणपर्यन्तं गौ: 'गौ'रेव कथ्यते न किन्तु मनुष्यवत् यथालक्षणं भिन्नभिन्नैविशेषणैः (गो-गर्दभ-श्वेत्यादिभिः) स परिचीयते । गौः गोरूपेणैव यथा जीवनं यापयति तथा मनुष्येणाऽप्येतद् शिक्षणीयं यद् सोऽपि मनुष्यरूपेणैव जीवनं यापयतु। मनुष्यत्वस्य कादाचित्को व्यवहारो न शोभास्पदः इति विचारणीयम् । इति । ९४ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130