Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 107
________________ छात्राः छात्रा: छात्राः आर्याः ! हन्त, अत्र बाढमपरद्धास्स्मः । अनुकम्पनीयास्स्म आर्याणां बालभावे नोत्तानहृदयाः । भवदुपदेशेन निरस्तहृदयक्लेशा नूतनाः संवृत्ता वयम्। कबीरः वत्सा: ! पूर्वमेवाऽनुकम्पिता एव यूयम् । सन्मार्गे तिष्ठत । कुरुत हृदयस्थानि मे वचनानि । संप्रति गच्छामो वयम् ? न न आर्याः ! क्षणं तिष्ठन्तु । सुधामधुराण्यपि भवद्वचनानि गद्यरूपेण हृदये चिरं स्थातुं न क्षमन्ते । तस्मात् पद्यबन्धेन यदि श्रावयन्त्यार्याः तर्हि सकृदभ्यासेनैव हृदये धारयितुं शक्ता भवेम। कबीरः बाढम् ! युक्तमुक्तं युष्माभिः । ननु प्रथममत्र यूयमेव यतध्वम् । अहं साह्याय प्रस्तुत एव। आर्याः ! इदं प्रयतिष्यामहे। -प्रथमः "केसन कहा बिगाडिया -द्वितीयः जो मंडै सौ बार। -तृतीयः मन को क्यों नहिं मूंडिये -तुरीयः जा में विषय-विकार ॥" कबीरः हन्त! मत्साह्यं विनैव युष्माभिः सुभाषितमेवं ग्रथितमिति मम वचनानि युष्मन्मनसि सम्यक् लग्नानीति मन्ये । श्रेयोऽस्तु वः । गच्छत गृहान् । वयमपि साधयामः । एकश्छात्रः अहो कथयन्नेव गतः साधुः। अन्यश्छात्रः नन्तुमप्यवसर एव न लब्धः। . अपरश्छात्रः आशिषो दत्त्वा गतः । न तादृशा नमनप्रतीक्षकाः। तुरीयश्च साधोर्निगमनेन शून्यीकृतमिवाऽस्माकं मनः । हन्त, गन्तव्या एव गृहाः । • "रागद्वेष वियुक्तानां यतीनां यतचेतसाम्। अभितो ब्रह्मनिर्वाणं वर्तते विजितात्मनाम् ॥" गीता ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130