Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दूत:
राजा
स्वं राजहस्तादवमोचय्याऽन्तःपुरं प्रति धावति । राजा च नि:सहायतया दूतं परिलक्षयति ।) प्रभो ! भवान् पितरं हत्वा मातरं च परिणीय पापसन्ततिं प्राप्स्यति - इत्यनया देववाण्या श्रावितमनर्थं वारयितुमेव कारिन्तनगरान्निष्क्रम्य थीब्स्-नगरं प्रत्याजगाम खलु? तत्पश्चात् यद् घटितं तत् स्वयमेव सुष्ठ जानाति ननु ? आमाम् । सम्यग् जानामि । यदाऽहं मार्गे आगच्छन्नासीत् तदा सन्ध्यायां क्षीणप्रकाशवेलायां विरुद्धदिश आगच्छन्तं सुदृढकायं तेजस्विनं रथारोहिणं पञ्चभिः परिजनैः परिवृतमद्राक्षम् । स च मार्गत्रयसन्धौ समागतं मां तर्जयित्वा "रे जाल्म ! निर्गच्छ मन्मार्गात् । मा रुधः मम मार्गम् । " इत्यादिकं मां नीचैर्वचोभिः भत्सितवान् । ततः स रथी मामेकाकिनं ज्ञात्वा स्वीयलगुडेन धर्षितवान् । तेन भृशं क्रुद्धोऽहं तेनैव लगुडेन तं सुदृढकायं तेजस्विनं रथिनं तत्परिजनै: सह निजघान । तदनु ततोऽग्रे गत्वाऽहं थीब्स्-नगरं प्रविष्टः । अत्रत्याभिश्च प्रजाभिरहं राजपदेऽभिषिक्तः । प्रभो ! त्वच्छैशवादनु तव दर्शनं मयाऽद्यैव कृतम् । तथा तव कारिन्तनगरनिष्क्रमणादनु या या घटना घटितास्ता अहं नैव जाने । अतस्ता ज्ञातुं तवाऽऽस्थाने वर्तमानं टैरीसियस्-दैवज्ञं आकारय । स एव ता यथातथं कथयिता।
दूतः
राजा
दैवज्ञः
(करतालं वादयित्वा) कोऽस्ति भोः ! तत्र ? सद्यः प्रवेशयेह तमुन्मत्तं ज्यौतिषिकम्।
(भटैः कृष्यमाणः टैरीसियस राजपुरतः उपतिष्ठति।) प्रभो ! यत्त्वयाऽहं वृद्धोलूक इति निन्दित्वा बहिनिष्कासितस्तेन न मे काचित् क्षतिः । इदानीं यत्त्वया ज्ञातव्यमवशिष्यते तदावेदयानि वा? शृणु राजन् ! योऽसौ तद्दिने थीब्स्-नगरपरिसरे त्वया लगुडेनाऽऽक्रम्य सपरिवारो
१०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130