Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 129
________________ मर्म-नर्म -सा.युगन्धराश्रीः माता नेत्रचिकित्सक: किमिति भवती निजबालं प्रतिदिनमपनेत्रं न परिधापयति? स बालोऽतीव चञ्चलोऽस्ति, कदाचिदुपनेत्रं भज्यात् । इतोऽहमपि प्रगल्भाऽस्मि, अतः प्रतिरात्रं यदा स शेते तदैव तमहमुपनेत्रं परिधापयामि। - र चिन्तन: भोः! एकदा अश्वस्पर्धायामाश्चर्यं जातम् । मननः किं तत् ? चिन्तनः शृणु । तद्दिने एकादशी तिथिरासीत् , अहमपि एकादशक्षणाधिके एकादशवादने तत्र प्राप्तः । तत्र ज्ञातं मया यदेकादशानामश्वानां स्पर्धाऽस्ति । अहमपि एकादशमेऽश्वेऽधृष्णवम् । मनन: तर्हि किं तवैवाऽश्वेन प्रथमः क्रमाङ्कः प्राप्त:? चिन्तन: न न । ममाऽश्वस्य क्रमाङ्कोऽपि एकादशम एवाऽभवत् । ११४ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130