Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
राजा
दृढकायस्तेजस्वी रथी निहतः स एव लायस्-नरेश आसीत् । स एव जोकास्टायां तव जनयिता तव पूज्यपिता । (राजानमभिवाद्य निष्कामति ।)
पञ्चमं दृश्यम् ज्ञातमिदानीं यज्ञातव्यमासीत् । सर्वं सुस्पष्टम् । इतः परं न किञ्चिज्ज्ञातव्यमवशिष्यते । लायस्-जोकास्टादम्पत्योर्जातं मामेव शिशं देववाण्या श्रावितादनिष्टात् भीता जोकास्टा घोरं सङ्कटं वारयितुकामा दूतद्वाराऽरण्यं प्रेषितवती । सोऽहमेव तेन दयालुना दूतेन कारिन्तनगरनिवासिभ्यां पालिबस्मेरोपादम्पतीभ्यां प्रदत्तः । ताभ्यां प्रेम्णा संवधितोऽहं तावेव मे जनयितारौ पितराविति मत्वा ऍपॉलो-मन्दिरे देववाणीं श्रुत्वाऽनिष्टं वारयितुं कारिन्तनगरात् तूर्णं थीब्स्-नगरं प्रतिजगाम । सोऽहमेव थीब्स्-नगरसमीपे लायस्-नृपालं पितृत्वेनाऽजानन् लगुडेन निहतवान् । सोऽहमेव थीब्स्-नगरं प्रविश्य नृपो भूत्वा मम मातरं जोकास्यं मातृत्वेनाऽजानन् प्रत्युत त्रिलोकसुन्दरीति मत्वा परिणीय समालिङ्गितवान् । जोकास्टे ! जोकास्टे! क्वाऽसि ? नाऽहं जानामि कथं त्वामाभाषे 'प्रिये!' इति वा 'अम्ब' इति वा? धिङ् मां कुत्सितजीविनम्। अन्ततः "पितरमेव निहत्य मातरमेव परिणीय तत्पापसङ्गमेन पापभूयिष्ठां सन्तति प्राप्स्यसि" इति देववाणीभणितं मया सत्यापितमेव । अहो दुर्धर्षा दैवलीला ! अहो क्रूरो विधिविलासः ! किन्तु अलं तच्चिन्तया । इदानीमिदं तु सुस्पष्टं यदस्य प्रजासङ्कटस्य निमित्तमहमेव, नाऽन्यः कश्चिदिति । यः कोऽपि वाऽसौ भवतु स राज्याद् बहिनिष्कास्य इति खलु मयैव विहिता आज्ञा ! तत्पालने कुतो विलम्बः? पितृहन्तुर्मातृभोक्तुश्च मेऽत्युग्रो दण्डोऽवश्यं विधेयः । नास्त्यत्र लेशाऽपि संशीतिः । क्रयान् ! युवराजकुमार ! क्वाऽसि त्वम् ? द्रुतमागच्छाऽत्र । (दूतः बद्धाञ्जलिः सन् उपतिष्ठति ।) स्वामिन् ! असमञ्जसं समापन्नम् । राजकुमारो निजस्वसारं जोकास्टां सान्त्वयितुं
दूत:
१०६ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130