Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
क्रयान्
राजा
क्रयान्
राजा
क्रयान्
Jain Education International
स्वस्वगृहं प्रतिष्ठत । देवताया दिव्यवाणीं श्रुत्वा यथार्थं वृत्तान्तमस्माकं तूर्णमागत्याऽऽवेदयितुं क्रयान् - राजकुमारं संप्रेषयामि । निश्चिता भवन्तु भवन्तः । (प्रजा: प्रतिनिवर्तन्ते ।) (क्रयान् - कुमारमुद्दिश्य) राजकुमार ! सावधानं शृणु मे वचः । त्वया सद्य एव पिथियान्- गोपुरं प्रति गन्तव्यम् । गत्वा चेमे घोरसङ्कटानावृष्टि-प्रजाक्षोभादयः कस्य पापकृत्यस्य फलानि, कस्य वा तापसस्य विमानितस्य शापोऽयमिति त्वया यथार्थतयाऽवगन्तव्यम् । त्वरय, विलम्बो नैव योग्योऽस्मिन् कार्ये ।
तथाऽस्तु प्रभो ! (राजादेशं शिरसा वहन् निष्क्रामति ।)
द्वितीयं दृश्यम्
क्रयान् ! किमस्य भोकरस्य महासङ्कटस्य प्रजाक्षोभस्य च कारणमवगतं त्वया ? अस्य रहस्यं देववाण्याऽस्मत्कृते उद्घाटितं वा ?
अवगतं प्रभो ! सुष्ठु अवगतम् । लायस्-नृपालस्य हत्यैव थीम्स् - नगरायोग्र: शापः संवृत्तः। सोऽसौ पापिष्ठो धूर्तापसदो लायस् - नरेशस्य हन्तकस्तव राज्य एव तिष्ठत्यद्याऽपि। यावदसावत्रैव वर्तते तावदयं प्रजानां क्षोभ: दुःसहं सङ्कटं च दुर्वारमेव । अतो विना विलम्बं सर्वप्रयत्नेन हन्तकोऽसावधिगम्येत राज्यसीमायाश्च बहिरुच्चाट्येत इत्येष एव परिहारोऽस्य घोरसङ्कटस्य नाऽन्य इति पिथियान्गोपुरान्निःसरन्त्या देववाण्या उच्चैर्घोषितं प्रभो ! । तर्हि झटिति सोऽयं नृपघातुको ऽन्विष्य गृह्यतामसौ । स यः कोऽप्यस्तु, तमहं राज्याद् बहिर्निष्कासयिष्यामि । एषा मेऽनुल्लङ्घया राजाज्ञा । प्रभो ! लायस् - नृपस्य हत्याया विषयेऽद्याऽपि तथ्यं इदमित्थमिति नैवाऽगतम्। अद्याऽप्यनुद्घाटितमेव तिष्ठत्यस्य रहस्यम् । तथाऽप्यहं सम्यक् स्मरामि यत् कति संवत्सरेभ्यः प्राक्, अर्थात् तव सिंहासनाधिरोहात् पञ्चषदिनेभ्यः पूर्वं कदाचित् क्षीणप्रकाशायां सन्ध्यायां लायस्-नरेशः स्वीयैः
९८
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130