Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 116
________________ I समाकारयन्तु तं राजपरिवारसेवकं दूतम् । तं चाऽत्रोपस्थापयन्तु । अहं तेन सह नृपघातक-वृत्तसम्बन्धि विचारणं कर्तुमिच्छामि । यः कोऽपि तं दूतमन्विष्याऽत्र समानेता तस्मै अहं विपुलं पारितोषिकं दाता । यदाज्ञापयति देवः । (निष्क्रामन्ति ।) राजभटाः (राजा महिष्या जोकास्टया सह संलपन् सिंहासनमधिरूढो वर्तते । तावत् सोऽसौ राजपरिवारदूतो राजसम्मुखमुपस्थितो भवति ।) रे रे दूत ! अस्य लायस्- नरेशस्य हत्याया हन्तुश्च विषये त्वं यद् यत् तथ्यं जानासि तत्, तदनन्तरं घटितां घटनावलीं च यथार्थतया निर्भीको भूत्वा पूर्णरूपेण मां निवेदय । तथा त्वमिदानीं क्व निवससि कुतश्चाऽऽगतोऽसि तदपि निवेदय । राजा दूत: राजा दूत: राजा Jain Education International प्रभो ! अहं मेषपालकोऽस्मि । कारिन्तनगरस्य समीपवर्तिनि पर्वतपरिसरे मेषपालनं कुर्वतो मम बहवः संवत्सरा व्यतीताः । तथाऽपि मम स्मरणशक्तिरकुण्ठितैव वर्तते । मम जीविते यत्किञ्चिदपि घटितं तत् सर्वमहं सुष्ठु स्मरामि । अहं भवन्तमपि बाल्यादेव सुतरां जानामि । भवन्तमिदानीं पुष्टं पीनं युवानं च दृष्ट्वा हर्षपुलकितोऽस्मि प्रभो ! । हे दूत ! मम जन्मस्थानस्य कारिन्तनगरस्य पर्वतपरिसरनिवासिनमात्मानं वर्णयसि तदा कारिन्तनगरस्था मन्माता मेरोपा तथैव मत्पिता पालिबस् - इति कुशलौ वा ? अकस्मादेवाऽहं तौ मन्मातापितरौ विहायाऽत्र समागतोऽस्मि । किं वदानि प्रभो !, वक्तुमेव न पारयामि तद् दारुणं वृत्तान्तम् । भवतस्ततो निर्गमनस्याऽनुपदमेव पालिबस् जठरसम्बन्धिनाऽन्त्रव्याधिना चिरपीडितो भूत्वा मृत्युवश-मगमत् । मरणावसरे भवन्तमेव स्मरन् स 'ईडिपस् ईडिपस् ! !' इति प्रलपन्नेव प्राणानजहत् प्रभो ! । अहो ! पश्य दुर्दैवविलसितम् । योऽहि स्वमातापितरौ मत्प्रसवितारौ आबाल्यादेव मे पालयितारौ परमपूजनीयौ आस्तां, तौ वार्धक्ये न सान्त्वयन् न रक्षंश्चाऽहं नूनं परमपापिष्ठो लोके सद्भिर्निन्दितः सीदामि । अहो मे दौर्भाग्यम् । १०१ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130