Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
व्याप्तिपञ्चकं तु अष्टसु दिनेष्वेवाऽधीतं, तच्च सर्वेषां विस्मयकारकं सञ्जातम् । ततो मङ्गलषिग्रहेन्दु(१९७८)मिते वर्षेऽभूच्चातुर्मास्यं स्तम्भनपुरे(खंभातनगरे) । तत्र स न्यायविशारदतार्किकशिरोमणि-पूज्योपाध्यायश्रीयशोविजयवाचकैविरचितं न्यायखण्डनखण्डखाद्याख्यं ग्रन्थं श्रीमदुदयनाचार्यविरचितं न्यायकुसुमाञ्जलिग्रन्थं च समभ्यस्तवान् ।
१ योगोदहनं पदप्राप्तिश्च । संयमजीवने आगमसूत्राणां पठनार्थं प्रथमं योगेनाऽऽराधनमवश्यकर्तव्यतया प्रतिष्ठापितमस्ति पूर्वाचार्यैः । अतः प्रायः सर्वेऽपि मुनयो योगोद्वहनं कुर्वन्त्येव । मुनिश्रीअमृतविजयेनाऽपि संयमजीवनस्य द्वितीयस्मिन् वर्ष एव श्रीउत्तराध्ययनसूत्रस्य श्रीआचाराङ्गसूत्रस्य च योगोद्वहनं गुरूणां प्रसादतो विहितम् । ततो मुन्यर्षि-तत्त्व-शशाङ्क(१९७७)मिते वर्षे श्रीकल्पसूत्रश्रीमहानिशीथसूत्रयोर्योगाराधनं कृतम्। ततो यथानुकूलं श्रीसूत्रकृताङ्गसूत्र-श्रीस्थानाङ्गसूत्रश्रीसमवायाङ्गसूत्रादीनां योगाराधनं कृतम्।
अथ बाण-मङ्गल-नन्द-विधु(१९८५)मिते वर्षे श्रीमद्गुरुभगवद्भिस्तस्य योग्यतां ज्ञात्वा कृपां विधाय श्रीकदम्बगिरितीर्थे पञ्चमाङ्गश्रीभगवतीसूत्रस्य योगोद्वहनाय समह: प्रवेश: कारितः । अयं हि योगो दीर्घकालिक आगाढोऽत्यन्तं महत्त्वयुतश्च वर्तते । अस्माद् योगात् सुमहति कारणे उपस्थितेऽपि जीवितव्ययेनाऽपि न कदाचिनिष्क्रान्तव्यम् । तस्मिन् पूर्णीभूत एव ततो निक्षेपः कार्यते । इतो यद्यपि मुनिअमृतविजयस्य स्वास्थ्यं तादृशं समीचीनं नाऽऽसीत् तथाऽपि परमकरुणावतां श्रीदेव-गुरूणां कृपया स्वीयचित्तोत्साहेन च विशेषबाधां विनैव योगाराधनं सानन्दं सम्पन्नम् । ततश्च गुरुभगवद्भिः तस्मिन्नेव वर्षे आषाढशुक्लचतुर्थ्यां मधुमतीनगरे तस्मै श्रीभगवतीसूत्रनुज्ञापूर्वं गणिपदप्रदानं विहितम् । तत आषाढशुक्लस्यैवाष्टमीतिथौ तस्मै पन्न्यासपदमपि प्रदत्तम् ।
ख-नन्द-नन्देन्दु(१९९०)मिते वर्षे गुरुभगवद्भिर्जावालनगरे चतुर्मासीस्थिरता कृता । तदा पन्न्यासश्रीअमृतविजयेनाऽवशिष्टानामागमसूत्राणां योगोद्वहनं कृत्वा पञ्चचत्वारिंशदागमसूत्राणां योगाराधनं पूर्णीकृतम् ।
Jain Education International
५६ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130