Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
चरन्ति । अथैकदा एकं प्रवहणं समुद्रमध्ये कुत्रचिद् विलीनं बभूव । कुतोऽपि तद्गन्धोऽपि न ज्ञायते स्म । अतोऽसौ श्रेष्ठी मच्चैत्ये आगत्य "यदि भवत्कृपातो मम बोहित्थं सक्षेममागमिष्यति तदा भवते महिषमेकं दास्यामि बलिरूपेण" इति उपयाचितं प्रतिपन्नवान् । मयाऽपि च महिषलोभेन तत् प्रवहणं समुद्रमध्यान्मृगयित्वा स्वशक्त्या समुद्रतटे आनीतम्। तदागमनवार्ता श्रुत्वा हृष्टेन तेन श्रेष्ठिना नगरे महोत्सव आचरितः। तस्य च प्रवहणस्याऽन्तःस्थानां क्रयाणकानां विक्रयणेन च तस्याऽनपेक्षितो लाभो जातः । किन्तु महिषवार्ता तु स विस्मृता तेन । अतो मया स्वप्नेऽसौ महिषार्थं स्मारितः । तदा सोऽपि कुतश्चिदेकं तरुणं महिषं मम चैत्ये आनीतवान् । ततोऽसौ महिषगलस्थाया रज्ज्वा द्वितीयं पर्यन्तं मम प्रतिमाया बद्धवान् । तदनु स भेरी-मृदङ्गादिवादकान् आहूय चैत्यपरिसरे युगपदेव सर्वाणि वादित्राणि वादयितुमादिशत् । वादित्राणां तेषां महान्तं नादं श्रुत्वा चिरादरण्यवास्तव्यत्वात् त्रस्तः स कासारनन्दनः ततो धावितवान् । धावन् स स्वेन सह रज्ज्वा बद्धं मामपि घर्षयन् तथाऽऽकृष्टवान् यथा तदा ममाऽङ्गेषु लग्नाश्चन्द्रिका: किलाऽद्याऽपि नोपशाम्यन्ति । अयं च वणिक् तथा निःशूकोऽस्ति यथाऽहं तत्प्रतीकारं कर्तुं नैव प्रभवाम्यहमपि। अतस्त्वं मा रोदी: । यतो महद् भाग्यं जागर्ति ते यत् स्वल्पेनैव विडम्बनेन मुक्ताऽसि त्वं तेन" इति । एतच्छुत्वा स्वां भाग्यवतीम्मन्या सा ततो निजस्थानं प्रतिनिवृत्ता। अतो भवन्तोऽपि वणिग्भ्यः सदा सावधानीभूय चरन्तु, अन्यथा.......!!
८९ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130