Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
कथा
बणिजः शाठ्यम्
मुनिकल्याणकीर्तिविजयः वणिजो हि शाठ्यकला(?)यामतीव निपुणा भवन्ति । कस्यचित् वञ्चना नाम तेषां वामहस्तक्रीडा! । भवतु नाम यदि ते मुग्धजनान् प्रतारयेयुः, किन्तु कदाऽपि श्रुतं भवद्भिर्यत् केनचिद् वणिजा देवा अपि प्रतारिता:? आम् तादृशा अपि जना सन्ति अस्मिन् वैचित्र्ययुते विश्वे ये विबुधनामधारकान् देवानपि वञ्चितुं शक्नुवन्ति । __ अद्याऽहं तादृशस्यैवैकस्य देववञ्चकस्य कथां भवद्भयः श्रावयितुं(पाठयितुं ?) उपस्थितोऽस्मि । शृणुत तावत् ।
किल देवपुरनामनगरे एको वणिक्श्रेष्ठी वसति स्म । कुलानन्द इति तन्नाम आसीत् । तच्च नाम तेन निजाचरणेन सार्थकं कृतमासीत् । स हि महाशठ आसीत् । वणिक्कुलेषु तु तादृशा एव आनन्ददायका इति स यथार्थतया कुलानन्द आसीत् । तस्य च मदनकलिका नामाऽत्यन्तरूपिणी गुणवती च भार्या बभूव। तौ द्वावपि परस्परमतीव प्रीतिमन्तौ आस्ताम् । __ अथ स श्रेष्ठी महाधनिक आसीत् । तत्पार्वे तावद् धनमासीत् यस्य गणनां कर्तुं स स्वयमपि न शक्तोऽभूत् । व्यवहारकुशलस्य तस्य वाणिज्यं जल-स्थलोभयमार्गेण नैकदेशेषु व्याप्तं विस्तृतं च बभूव । (अद्यतनीभाषायां तु 'मल्टीनेश्नल्कम्पनी'ति स्यात्)।
किन्तु बहो: कालादपि तयोर्दम्पत्योः काऽपि सन्ततिर्न बभूव। अत: कुलानन्देन चिन्तितं यद् 'यदि पुत्रो नाऽस्ति तदाऽस्य विशालवैभवस्य धनस्य च भोक्ता को भविष्यति ? अस्माकं परम्परा कथं प्रचलिष्यति ? वार्धक्ये च नौ क आधार: ? अतः पुत्रप्राप्त्यर्थं कश्चिदुपायः प्रयोक्तव्यः।
इतो मदनकलिकयाऽपि चिन्तितं यद् 'मातृत्वेन विना स्त्रीत्वस्य कोऽर्थः? तानि गृहाणि स्मशानतुल्यानि येषामङ्गणेषु क्रीडतां बालानां कर्णमधुरः कलकलरवो न श्रूयते । अतः सन्ततिप्राप्त्यर्थं किमपि कर्तव्यम्।'
८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130