Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शोभनं कुर्याम तथाऽपि बहवः प्रश्ना समादध्युः, अध:पतनाद् रक्षणमपि भवेत् । किन्तु तद् गृहस्थाश्रममपि यदि गुणवत्तया सत्संस्कारैर्वा सुवासितं स्यात् ।। __किल बहवो विषया: शिक्ष्यन्तेऽधुना विद्यालयेषु । इतिहासोऽपि एको विषयः । तादृश्यो बहवः कथास्तत्र सन्ति यासु व्याक्तिविशेषाणां जीवनवृत्तं वणितमस्ति । ते जनाः सामान्या: सम्राजोऽपि वा स्युः, किन्तु तेषां जीवने ये केचित् कष्टा आपतिता: तान् धैर्येण अक्षुब्धत्वेन च तेऽसइन्त, न किन्तु सत्वं सत्यपथं वा त्यक्त्वा प्राकृतजनवदाचरणं कृतम् । त एव च महान्तः सञ्जाताः । तादृश्यां कष्टावस्थायामपि यत् सत्यं सत्त्वं वा तेषां प्रकाशते तत् किमस्ति ? कुत आगतम् ? शिक्षणमेव एतस्य मूलम् । केवलं शुष्को व्यावहारिकोऽभ्यास: कदाचित् बुध्धिं ज्ञानं वा वर्धयेत् किन्तु सत्त्वं तु शिक्षणेनोद्घाटिता: सत्संस्कारा एव प्रेरयन्ति प्रकटयन्ति च ।
एषाऽऽसीदस्माकं पावनी संस्कृतिः, या इतिहासस्य पृष्ठेष्वेव सुरक्षिताऽस्ति वर्तमाने । संस्कृतिस्तु न पुस्तकै: किन्तु अस्माभिरेव जीवितुं शक्यते। परम्परया प्राप्ता उत्तमाऽपि संस्कृतिः अस्माभिः अभ्यासविषया कारिता, न किन्तु कदापि सा अस्माकं अनुभवगोचरा सजाता। ___ अधुना सर्वत्र संस्कारविहीनो - धार्मिकताशून्यो व्यवहार एव प्रवर्तते । अस्मादृशामर्थे सन्तत्वं न शक्यं एतत् मान्यम् किन्तु किं सद्गृहस्थत्वमीप न शक्यम् ? यद्येवं तर्हि वयं पूर्वाजानां ऋषिमुनीनां संस्कारितां उज्जवलां च संस्कृते: परम्परां स्वहस्तैरेव निस्तेजां कुर्महे। संस्कृतिस्तु न केवलं शिक्षणस्य विषयः सा तु संस्कारस्य विषयः । यदि नाम वयं संस्कारानाधातुं न प्रभवेम सुषुप्तां वा संस्काररूपां धार्मिकतामुद्बोध्धुं नाऽलं तदा शिक्षणस्य नास्ति प्रयोजनम् ।
आंग्लभाषायां शिक्षाथं व्यापृतः एक: शब्दोऽस्ति - Education (एज्युकेशन) । तत्र 'एज्युकेट' इति धातुरस्ति – 'बहिरानयनम्' इति तस्याऽर्थोऽस्ति । विद्यार्थिनां सत्त्वस्य सत्यस्य प्रतिभाया वा बहिरानयनम् - इति 'एज्युकेशन' - इत्यनेन व्याख्यायते । तद्हेतुसिध्धिरेव शिक्षणस्य वास्तवं फलमस्ति नान्यत् । कियन्तो वयं सफलाऽत्र सञ्जाताः इति अस्माभिः चिन्तनीयम् । सङ्गणकयन्त्रस्य संचालनं वयं कर्तुमीशा: किन्तु स्वकीयसंचालने ऽसमर्था इव प्रतिभामः, पशुभिः सह प्रेम कर्तुं वयं सज्जाः किन्तु न वयं प्रातिवेश्मिकैर्वा सह प्रीतियुक्तो व्यवहारः कर्तुं शक्ताः । जीवनेन साक्षादनुबन्धिन्या: स्थित्या: मनुष्योऽधिकमधिकं दूरीभवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130