Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नमो नमः श्रीगुरुनेमिसूरये ॥
पत्रम्
- मुनिधर्मकीर्तिविजयः आत्मीयबन्धो चेतन!
धर्मलाभोऽस्तु। पूज्यपादानां गुरुवराणां देहमाराधनानुकूलं वर्तते । विहरिष्यामो वयं सर्वेऽपि चतुर्मासी समाप्य 'बेंगलोर'नगरं प्रति।
गतपत्रे जैनी कर्मपद्धति संलक्ष्य मनोविषयके द्वे तत्त्वे चिन्तिते । इदानीमवशिष्टयो: द्वयोः तत्त्वयोः विमर्शस्य चिकीर्षुरहम् ।
१. जीवने न कदाचिदपि कृतस्याऽशुभकार्यस्याऽनुमोदनं करणीयम्।। २. जीवने आचरितस्य दुष्टकार्यस्याऽवश्यमेव पश्चात्तापः कर्तव्यः ।
अथ जीवः प्रतिक्षणं मनोवाक्कायरूपस्य त्रिविधयोगस्य द्वारेण शुभमशुभं वा कर्मवृन्दं बध्नाति एवेति जैनाः मन्यन्ते; तथैव भगवद्गीतायामपि श्रीवेदव्यासभगवान् आह -
न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवश्य: कर्म सर्व: प्रकृतिजैर्गुणैः॥ (३-५) __ अतो जीवमात्रेण शुभमशुभं कार्यं क्रियते, तदनुसारेण पुण्यबन्धः उत पापबन्धो भवत्येव । किन्तु स्वभाववशात् यदाऽशुभं कार्यं भवेत्तदा तत्पश्चात् तस्य कृतस्य दुष्टकार्यस्य गर्दा करणीया, परंतु नाऽनुमोदनं करणीयम् । यतोऽशुभकार्येण पापबन्धस्तु भवत्येव, किन्तु यदा तस्य कृतस्य दुष्टकार्यस्याऽनुमोदना भवति, तदा तस्य पापबन्धस्याऽनुबन्धो भवति; प्रत्युत स पापबन्धोऽत्यन्तं दृढो भवति । यथा वस्त्रस्योपरि लग्नं रजोवृन्दं केवलं वस्त्रशाटनेनैव दूरीभवति, किन्तु तैलादिस्निग्धवस्तुभिः कर्दमितस्य वसनस्योपरि संलग्ना धूलि: न महताऽऽयासेनाऽपि निर्गच्छति । तथैव पापबन्धेनोपार्जितं कर्म सहजतया क्षीयते, किन्तु पापबन्धस्याऽनुबन्धेन यदुपार्जितं कर्मवृन्दं तत्तु अवश्यमेवाऽनुवेदनीयम् । तस्य बद्धकर्मणो विपाकस्योदय: तद्भवे भवान्तरे वाऽऽगच्छत्येव । उत्कृष्टतपोभिरपि न तत्कर्म नश्यति । जैनदर्शनानुसारेण एतादृशः कर्मबन्धो 'निकाचितबन्धः'
७३ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130