Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
* अनुवादः
-मुनिधर्मकीर्तिविजयः अस्माकं सर्वेषामपि जीवानां मनसः पीडादायकः एकः एव दोषः - ईर्ष्या । ___ कस्यचिदपि आत्मनो भवत् सुन्दरं कार्यं निरीक्ष्य त्वरितमेवाऽस्माकं चित्तं व्याकुलं भवति । वस्तुतः ‘तस्य कार्य श्रेष्ठमस्ती'ति विश्वासोऽस्माकं चित्ते कदाचिदेव भवति । केवलमस्माभिर्मनसैव निर्णीतमेतद् यन्मत्तः तस्य स्थानं श्रेष्ठ, समाजे तस्य मानोऽधिकः । आश्चर्यं त्वेतद यदेतादृशे विचारे । मनसि जाते सत्येवाऽस्माकं हृदयमीज्विालया दहति ।।
ईर्ष्याया वैशिष्ट्यमपि ज्ञेयं यत्तस्यामीर्ष्यायां “अन्येभ्यो भवेयमहं श्रेष्ठोऽथवा मयाऽपि यदि परिश्रमः क्रियेत तदा तेन सदृशोऽथवा ततोऽपि श्रेष्ठो भवेयमि”ति भावनायाः स्थानमेव न भवति । तत्र तु 'अहमुत्तमो भवेयं न वा किन्तु कदाऽप्यन्यस्तु मत्तः श्रेष्ठो नैव भवेत्' इत्येव दुष्टवृत्ती रमते ।
एतादृशी वृत्तिरस्माकं मानसे हताशां हतवीर्यतां चोद्गमयति । तथा चाऽन्यान् प्रति निष्कारणं द्वेषं क्रोधं च जागरयति ।
सुज्ञजनायैतादृशी स्थितिः न कदाऽपि हितावहा भवति ।
७८ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130