Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 94
________________ शोधलेख: जैनमुनिरनशेखरस्य छन्दःकोशे छन्दोयोगदानम् डॉ.आचार्यरामकिशोरमिश्रः संस्कृतविभागाध्यक्षः म.मा. डिग्री कॉलिज, खेकडा (बागपत) उ.प्र. २०११०१ छन्द:कोशस्य रचयिता जैनमुनिरत्नशेखरोऽस्ति । अयं श्रीवज्रसेनस्य शिष्यस्तथा श्रीहेमतिलकसूरे: पट्टाधिकारी नागपुरीयतपागच्छस्य जैनसाधुरासीत् । पट्टावल्यनुसारमस्य जन्म नेत्राऽश्वकालचद्राऽङ्किते १३७२ वैक्रमाब्दे बभूव । छन्द:कोशस्छन्दसामेकोलघुग्रन्थोऽस्ति । अत्र युगर्षिपद्यानि (७४) सन्ति । प्रथमपद्याच्चतुर्थपद्यपर्यन्तमेकपञ्चाशत्तम(५१)पद्याच्च चतुःसप्तति(७४)तमपद्यपर्यन्तमष्टाविंशति(२८) पद्यानि प्राकृतनिबद्धानि, शेषपद्यानि च पञ्चमपद्यात्पञ्चाशपद्यपर्यन्तं षटचत्वारिंशत्पद्या(४६)न्यपभ्रंशपरिचायकानि सन्ति । अस्य ग्रन्थस्य प्राकृतपैङ्गलस्य च कानिचित्पद्यानि साम्यधारकानि सन्ति । अतोऽस्य समयः प्राय: खभूताग्नीश्वराङ्कित:(१३५०) ऊस्ताब्दो मन्यते। __ अस्य लक्षितेषु छन्दस्सु द्वे स्वतन्त्रलक्षिते छन्दसी स्तः, ये लौकिकच्छन्दःशास्त्रे स्वयोगं दत्तः । यथा___जैनमुनिरत्नशेखरस्य स्वतन्त्रलक्षिते छन्दसी - छन्दोनाम लक्षणम् वृत्ति: पादवर्णाः छन्दकोश: १ बहुलम् (नननाः) ८ अष्टमपद्यम् २ नाराचः r(जरजरजरलगा:)1 कृतिः २० १५ पञ्चदशं पद्यम् LISISISISIS151515155 (१) प्राकृतपैङ्गलम्, भागः - २, पृष्ठाः - ३८८ (२) छन्द:कोशस्य - १२, १६, २५, ३१, ४६, ५० इत्यङ्कितानि पद्यानि, प्राकृतपैङ्गलस्य च क्रमश: - १/१०७,२/२०८, १/१७०, १/१४६, २/६९, १/१४४ इत्यङ्कितानि पद्यानि द्रष्टुं शक्यन्ते। (३) नाराचस्य पञ्चचामर इति नामान्तरम् । बृहती Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130