Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
तेन । एवमुन्मत्तगज इव स नगरे स्वच्छन्दतया निराबाधं परिभ्रमति।
अथ श्रुतमेतद् सर्वमपि राज्ञा । तस्य दुष्टकार्याणि दृष्ट्वाऽयोग्योऽयं इति मत्वा नगरात् बहि: निष्कासितः । इतस्तत: परिभ्रमन् स: भिल्लपल्लिं गतवान्। भिल्लपतिनाऽस्य कर्मकुशलतां विज्ञाय स्वोत्तराधिकारिरूपेण स्थापितः तथा च सर्वाऽपि संपत्तिः तस्मै दत्ता तेन भिल्लपतिना। स दृढप्रहारी स्वकौशलेन एकेनैव प्रहारेण निर्दयतया जीवान् घातयति, ततो 'दृढप्रहारी'ति तस्य नाम प्रसिद्धं जातम्।
एकदा लुण्टनार्थं स्वधाटी समादाय 'कुशस्थल'पुरं गतवान् सः । तत्रैव नगरे निर्धनो देवशर्माभिधो द्विजो वसति। ___ तदा तद्गृहे क्षैरेयीभोजनं राद्धम् । कार्यार्थमन्यत्र गतवान् द्विजः । तस्मिन्नैव काले आगतेन केनाऽपि चौरेण तद्भाजनं गृहीतम्। तद् दृष्ट्वा नदीं गत्वा बालकेन पितोरग्रे सर्वमपि निरूपितम्। ततः सोऽपि द्रुतं समागत्य चौरं हन्तुमुधुक्तो जातः । तदा खड्गस्यैकेनैव प्रहारेण विप्रो दृढप्रहारिणा व्यापादितः। भूमौ पतन्तं तं वीक्ष्य क्रोधावेशव्याकुला गृहसौरभेयी स्वपुच्छमुच्चं विधाय तं मारयितुं प्रयत्नवती जाता। साऽपि हता दृढप्रहारिणा। तदैव स्वपति मृतं संदृश्याश्रूणि नि:सरन्ती, विलपन्ती, आक्रोशं कुर्वन्ती चाऽऽपन्नसत्वा द्विजवधूरपि तत्राऽऽगता। तदा तेन निष्ठुराध्यवसायेन दृढप्रहारिणा तस्याः उदरे प्रहारः कृतः । एकेनैव प्रहारेण सा पञ्चत्वं प्राप्ता, तथा च कुक्षिस्थो गर्भोऽपि भूमौ पतितः। __ अथ भूमौ परिस्फुरन्तं विलुठन्तं च गर्भ निरीक्ष्य कारुण्यमुत्पन्नं तस्य चित्ते । स्वमानसे खेदो जातः, आत्मनः उपर्येव धिक्कार: संजातः । मया निष्कारणं चतस्नो हत्याः कृताः। अहो ! का गतिर्मे भाविनी, किं मे शरणम् ? इति चिन्तितवान् । एवमुद्विग्नमनाः स दृढप्रहारी वनं जगाम।
ददर्श स प्रशान्तवदनं ध्यानस्थितं मुनिवरम् । तं वीक्ष्यैव तस्य पादयोः पतितवान् सः । अद्यपर्यन्तं स्थगिताऽश्रुप्रवाहधारा त्रुटिता । सर्वमपि निजपातकं निवेदितम् ।
भगवन् ! निवेदयतु ' कथमेतत्पातकात् विमुक्तोऽहं भवेयम् ? साधुराह - "विशुद्धचरणस्य धर्माराधनमृते नैतस्मात् मोक्षः" इति श्रुत्वा वैराग्यमनसा निजपापभयेन तेन तदैव चारित्रमूररी कृतम् । तथा तत्क्षणे एवाऽभिग्रह: प्रतिपन्नः यत् “तावन्न जलमन्नं च प्रतिपत्तव्यं यावच्चतस्रोऽ
Jain Education International
७६ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130