Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 74
________________ मिलनार्थं तैः सह तत्त्वचर्चादिकरणार्थं च विना सङ्कोचं समागच्छन्ति स्म । धन्यम्मन्याश्च भवन्ति स्म। एवंविधास्ते गूर्जर-सौराष्ट्र-मरुधर-मुम्बापुरी-खानदेशप्रभृतिक्षेत्रेषु बहुशो विहृत्य धर्मोपदेशदानेन तत्रत्यान् सङ्घान् प्रतिबोध्य चाऽनेकानेकानि धर्मकार्याणि कारयामासुः । यथा मुम्बापुर्युपनगर-बोरीवली(पूर्व)स्थ-दोलतनगरमध्ये सम्प्रति यानि कानिचिज्जिनमन्दिरज्ञानमन्दिरोपाश्रयप्रभृतीनि धर्मस्थानानि विद्यन्ते तानि सर्वाण्यपि श्रीमत्सूरीश्वराणां पवित्रप्रेरणयैव सञ्जातानि । तेषां परमप्रभावेणाऽधिष्ठितं तत्रत्यं जिनमन्दिरमद्याऽपि अपूर्वप्रभावशालि सर्वैरनुभूयते। तत: पादलिप्तपुरे तीर्थाधिराजश्रीशत्रुञ्जयगिरिराजस्य तलहट्टिकायां पूज्यसूरीश्वराणां मार्गदर्शनेन प्रेरणया च चतुर्भूमिक-श्रीकेसरियाआदिनाथजिनमहाप्रासादपरिमण्डितं श्रीकेसरियाजीनगरं नामैकं धर्माराधनसङ्कलं प्रतिष्ठापितं यदद्याऽपि पादलिप्तपुरे प्रधानाराधनाधामतया विराजते। शविशिष्टः शिष्यपरिवारःवि संसारं परित्यज्य स्वपार्वे आगता जीवा सर्वदा ज्ञान-दर्शन-चारित्र-तपस्सु सततमुद्यता भवेयुः, तथा ते सर्वेऽपि शास्त्राध्ययन-ग्रन्थलेखन-साहित्यसर्जनादिष्वेव निजजीवनं यापयित्वा शासनप्रभावनादिकार्याणि च निरलसतया विधाय स्वजीवनमुद्योतितं कुर्युरित्येषा भावना तेषां हृदि सर्वदा वहति स्म । अतस्ते सर्वानपि निजशिष्यानेतदर्थं सर्वदा प्रेरयामासुः । अनेन तेषां विशालसङ्ख्यक: शिष्यपरिवारः संयमतपोनिष्ठो निर्दूष्यवैदुष्यविभूषितो विशिष्टतमग्रन्थरचनाकौशलकलित: प्रवचनप्रभावनानिरतः प्रविरलगुणगरिष्ठो वर्तमानकालीनजैनसङ्घाय च स्पृहणीय: सम्माननीयश्चाऽस्ति । एतेषु आचार्यश्रीविजयरामसूरि-श्रीविजयदेवसूरि-श्रीविजयधर्मधुरन्धरसूरिप्रमुखाः सूरिवरा अन्येऽपि मुनिवराश्च जिनशासननभोङ्गणे शुक्रतारकायमाना आसन् सन्ति च । तत्राऽपि तेषां श्रीमतां पूर्णकृपाभाजनत्वं आचार्यश्रीविजयधर्मधुरन्धरसूरिरदधत् । पूज्यगुरुवर्यैर्मुम्बापुर्यां महामहोत्सवपूर्वं तस्मै प्रदत्तस्याऽऽचार्यपदस्याऽवसरोऽद्याऽपि न विस्म्रियतेऽस्माभिः । ५९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130