Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
रसाक्षि-गगन-नयन(२०२६) मिते वैक्रमाब्दे वैशाखकृष्णसप्तमीदिने श्रीकेसरियाजीप्रासादे तेषां शुभनिश्रायां शतचतुष्टयमितानां प्रतिमानामञ्जनशलाकापूर्विका प्रतिष्ठा महतोत्साहेन प्रवरमहोत्सवेन सह भूरितरद्रव्यव्ययेन सञ्जाता । परः सहस्रा जनास्तस्मिन्नुत्सवे समागता अद्वितीयं च तं महोत्सवं निरीक्ष्य कामं मुदितमानसाऽभवन् । तत आरभ्य प्रतिवर्षं प्रतिष्ठाया वार्षिकप्रसङ्गेऽञ्जनशलाकामहोत्सवः समभवत् ।
स्वास्थ्यहानिः स्वर्गगमनं च
अथाऽऽकाश-लोक-गगन - नेत्र (२०३०) मितं संवत्सरं यावत् ते पूज्याः परं स्वास्थ्यं बिभ्राणा निजसाधनं साधयन्तो भव्यानुपदिशन्तो विराजमाना आसन्। अष्टोत्तरसप्ततिवर्षायुष्यपि तेषां मनसि भूयानुत्साह आसीत् । किन्तु केनाऽपि कारणेन मृगशीर्षकृष्णत्रयोदशीदिने तेषां शरीरे ज्वरार्तिरभूत् । तत आरभ्य तेषां शरीरमस्वस्थं सञ्जातम् । इतो नैके आचार्या तेषां सुखसातं प्रष्टुं तैः सह शासनस्य गभीरप्रश्नानां चर्चा- विचारणादि च कर्तुमायान्ति स्म । किन्तु तेषां मनः तादृक् स्वस्थमासीद् यत् केनाऽपि ते रुग्णाः सन्ति इति न ज्ञातम् ।
अथ तेषां शरीरशैथिल्यं ज्ञात्वा आचार्यमहोदयाः श्रीहेमसागरसूरीश्वराः, श्रीभुवनभानुसूरीश्वराः, श्री शान्तिविमलसूरीश्वराः, श्रीप्रभवचन्द्रसूरीश्वरा अन्ये च बहवः श्रमणाः श्रमण्यः श्रावकाः श्राविकाश्च तान् वन्दितुं सुखसातापृच्छादि कर्तुं चाऽऽगच्छन्ति स्म ।
ये ये आगच्छन् ते सर्वेऽपि नमस्कारमहामन्त्रं पञ्चसूत्रं पुण्यप्रकाशस्तवनं इत्यादिका - नन्तिमाराधनास्वरूपान् स्तोत्रान् तेभ्य श्रावयन्ति स्म । आचाय श्रविजयधर्मधुरन्धरसूरीश्वरा अपि तेभ्यः स्वविरचितानि वैराग्यशतकात्मनिन्दाद्वात्रिंशिका - पद्यानि यदा तदा श्रावयन्ति स्म । तानि श्रुत्वा तेऽपि तैः सह तत्पद्यान्युच्चरन्ति स्म ।
यद्यपि शरीरस्वास्थ्यमतीव विघटमानमासीत् तथाऽपि ते पूर्णां स्वस्थतां समाधिभावनां चाऽधारयन् । एतद् दृष्ट्वा जना विस्मिता भवन्तस्तान् प्राशंसयन् ।
"जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च" इति वचनानुसारेण न हि कस्यचिदपि जन्मधारिणो जगतीह सर्वदा स्थास्नुत्वं सम्भवेत् । तथाऽप्येतादृशां परमोपकारिणां शासनप्रभावकपुरुषाणां स्वर्गमनं सर्वेषां बाढं मनोव्यथाजनकं भवत्येव । पोषशुक्लाया षष्ठ्यास्तिथेस्तद्दिनमासीत् । न केनाऽपि स्वप्नेऽपि विचारितं यदद्य पूज्यसूरीश्वराणामन्तिमो
Jain Education International
६१
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130