Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 78
________________ महाभूतेषु । ततः सर्वैरपि आचार्यादिमुनिभिः साध्वीभिः श्रावकैः श्राविकाभिश्च सम्भूय देववन्दनं विहितम्। ततः सर्वैरपि पूज्यगुरुवराणां गुणानुवादः कृत: । जिनशासनगगनाङ्गणे तेजस्वितारकायमान एको महान् प्रभावकपुरुषोऽद्य दिवङ्गतस्तेन च महती क्षतिः सञ्जातेति स्वीकृतं सर्वैरपि । ततो यथाकालमग्निसंस्कारस्थले मनोहरः श्रीकदम्बामृतविहारो निर्मापितस्तेषां भक्तै : श्रावकैः । तत्र विहारे भूमिगृहेऽष्टापदतीर्थरचना कारिता, उपरिभागे च श्रीकदम्बगणधरस्य प्रतिमा पूज्यवर्याणां च चरणपादुके च स्थापिते । एतत् तु तेषां बाह्यस्मारकं कृतम् । किन्तु ये ये जना निजजीवने तेषामल्पमपि परिचयं प्राप्तास्तेषां मनसि तु पूज्यानां शाश्वतं स्मारकं स्वयमेव निर्मितम् । अथ वयमप्येतादृशां पूज्यानां जीवनवर्णनद्वारा तद्भक्तिं कृत्वा तदाशिषो लाभेन निजजीवनमुन्नतयाम इति शम् । Jain Education International ६३ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130