Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 72
________________ ततो अन्यत्र विहृत्य षड्वर्षानन्तरंचन्द्र-ग्रह-नन्देन्दु(१९९१)मिते वर्षे श्रीमद्गुरुभगवन्तः पुनरपि मधुमतीनगरं समाजग्मुः। तदा तत्रैव उपाध्यायश्रीविज्ञानविजयगणये आचार्यपदप्रदानं पत्र्यासश्रीअमृतविजयगणि-पन्न्यासश्रीलावण्यविजयगणिभ्यां चोपाध्यायपदप्रदानं कृतम् । तदवसरे मधुमतीनगरस्थजैनसङ्घन भूरिद्रव्यव्ययपूर्व महामहोत्सवोऽपि विहितः । उपाध्यायपदप्राप्त्यनन्तरमाचार्यपदप्राप्त्यवसरस्तु स्तोकेनैव कालेन समुपस्थितोऽभवत् । वैक्रमीये नयन-ग्रह-ग्रहार्यम(१९९२)मिते संवत्सरे पूज्यगुरुभगवन्तो राजनगरे विराजमाना आसन् । उपाध्यायश्रीअमृतविजयगणिस्त्वन्यत्र विहरन्नासीत् । तदा गुरुभगवतां हृदि तस्मै आचार्यपदप्रदानस्याऽभिलाषो जातः । अतो भक्तश्रावकान् प्रेषयित्वा "तुभ्यं सूरिपदं दातुकामोऽस्मि, झटिति राजनगरमागच्छ” इति सन्देशः प्रहितः। तं श्रुत्वा सोऽपि "यथा गुरुवर्याणामाज्ञा, आज्ञा गुरूणामविचारणीया" इति प्रत्यत्तुरं दत्त्वा शीघ्रमेव विहारं कृत्वा राजनगरमागच्छत् । राजनगरे तु सूरिपदप्रदानार्थं सर्वमपि सामग्रीजातं सज्जीभूतमेवाऽऽसीत् । ततो भव्यजिनेन्द्रभक्तिमहोत्सवपूर्वकं वैशाखशुक्लचतुर्थीदिने शुभे मुहूर्ते पूज्यगुरुभगवद्भिः स्वकरकुड्मलाभ्यामेव श्रीजेशिंगभाई-श्रेष्ठिनो विशाले वाटिकापरिसरे उपाध्यायश्रीपद्मविजयगणि-पाठकश्रीलावण्यविजयगणिभ्यां सह तस्मै अपि आचार्यपदं प्रदात्तम् । तत्राऽवसरे आचार्यश्रीविजयपद्मसूरये शास्त्रविशारद-कविदिवाकर-इति-बिरुदद्वयं, आचार्यश्रीविजयामृतसूरये शास्त्रविशारद-कविरत्न-इति-बिरुदद्वयं तथा आचार्यश्रीविजयलावण्यसूरये शास्त्रविशारदकविरत्न-व्याकरणवाचस्पति-इति-बिरुदत्रयं चाऽपि प्रदत्तम् । ततश्च उपाध्यायश्रीअमृतविजयगणिः शास्त्रविशारद-कविरत्न-आचार्यश्रीमद्विजयामृतसूरीत्याह्वया जगति प्रसिद्धाऽभवन् । किञ्च पद्मरागमणीनामाकरे पद्मरागस्यैवोत्पत्तिरिव शासनसम्राजां श्रीमद्गुरुभगवतां शिष्यसमुदाये सर्वेऽपि प्रवरगुणगणालङ्कता: श्रमणा अभवन् । गुरुवर्यैः स्वयमेव निजकरकमलाभ्यां येभ्यः सूरिपदं प्रदत्तं तेषु सप्तसु कश्चिन्नैयायिकः, कश्चित् सिद्धान्तविशारदः, कश्चित्तु न्यायव्याकरण-साहित्येषु निष्णात:, कश्चिच्च वैयाकरणः, कश्चित् काव्यरचनायां ग्रन्थसर्जने वृत्तिरचने च निष्णातः तथा कश्चित् प्रवचनकरणे चाऽपि सुतरां वैदग्ध्यं दधन्नासीत् । Jain Education International ५७ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130