Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
इति मनसि निधाय शासनसम्राजो गुरुभगवन्तः सर्वदा स्वशिष्यान् ज्ञानाभ्यासार्थं प्रेरयन्ति स्म । स्वयमपि च शिष्याणामध्यापने भृशं प्रयतन्ते स्म। ___ वयं ह्येतत् समीचीनतया जानीमो यद् गुरूणां कृपादृष्ट्यैव विशदावदाता बुद्धिनिर्मलं ज्ञानं
च लभ्यते । ये च गुरुभगवत्सु समर्पितहृदया तेषु गुरुकृपामृतधारा विनाऽऽयासेनैव वर्षति। ततश्च ज्ञानाभ्यासोऽपि तेषां निर्विघ्नतया वर्धते । एतत् सर्वं स्वीयनिर्मलबुद्ध्या स्वयमेव जानानेन नूतनमुनिश्रीअमृतविजयेन तीव्रक्षयोपशम-प्रबलपुरुषार्थयोर्बलेन गुरुकृपामृतपानेन च स्तोकेनैव कालेन ज्ञानाभ्यासे शोभना प्रगतिः कृता । प्रारम्भे आवश्यकसूत्राणां ततश्च संस्कृतव्याकरणादिशास्त्राणां चाऽध्ययनं कृतम् । मरुधरदेशीयविशुद्धजल-वायुप्रभावेण तस्य स्वास्थ्यमपि समीचीनं सञ्जातं यच्च दीक्षाग्रहणपूर्वं किञ्चित् प्रतिकूलमासीत् ।
चतुर्मास्यनन्तरं कातिकृष्णद्वितीयादिने मुनिश्रीअमृतविजयस्योपस्थापना विहिता। तदवसरे बोटादत: समागता देशाईलक्ष्मीचन्द्र-हेमचन्द्र-नरोत्तमदासप्रमुखा: सर्वेऽपि स्वजना: स्वीयमुनिवरस्य संयमस्थैर्याभ्यासलीनता-चित्तप्रसादादिकं च निरीक्ष्याऽतिवेलमानन्दमधिजग्मुः ।
ततो गुरुभगवन्तो विहृत्य सादडीग्रामं प्राप्ताः । तत्र मुनिश्रीनन्दनविजयस्याऽपि आगमनं सञ्जातम् (यः पूर्वं अमृतलालस्य मित्रं नरोत्तम आसीत् )। बहोरनेहसः पश्चात् स्वस्य प्राक्तनस्य प्रगाढमित्रस्य मिलनेन द्वयोरपि परमो हर्षोऽभूत् । सरसं स्वस्वदीक्षादिव्यतिकरं वर्णयतोस्तयोईयो: कियान् कालो व्यतीतस्तदपि न ज्ञातम्। तौ द्वावपि परस्परस्य नैपुण्यं धैर्य कार्यसाफल्यं च प्रशशंसतुः । नूनं द्वयोः समवयस्कवयस्ययोर्मित्रयोः कीदृक् सारूप्यम् ! द्वावपि गुप्तरीत्या गृहान्निर्गत्य मनोदाढ्र्येण प्रबलपुरुषार्थं स्फोरयित्वा संयम स्वीचक्रतुः ।
रास्वमित्र-लवजी-इत्यस्य दीक्षा शासनसम्राजां विक्रमीयरस-दर्शन-ग्रह-शशाङ्क-(१९६६)मितसंवत्सरे बोटादग्रामे चतुर्मास्यां ये पञ्च सुहृदः प्रतिबुद्धा: संयमग्रहणे च बद्धपरिकरा: दृढप्रतिज्ञावन्तश्च समभूवन् तेषु त्रयाणां दीक्षा सञ्जाता किन्तु चतुर्थो लवजी-इति अवशिष्ट आसीत् । स यथाकथमपि गृहात् पलाय्य सादडीग्रामे गुरुचरणयोः समुपस्थितः । मधुरवचसा गुरुभिराभाषित: स परमां प्रसत्तिं प्राप। ततस्तेनाऽवनतशिरसा योजितकरकुड्मलद्वयेन च विज्ञप्ता गुरुभगवन्तः - "हे कृपालवो गुरुवर्याः! मयि कृपां कृत्वा प्रयच्छतुतरां मे पारमेश्वरी प्रव्रज्याम् । विद्यते तत्कृते
Jain Education International
For h
e & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130