Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ 'येन केनाऽप्युपायेन मया तत्र गन्तव्यमेवेति कृतनिर्धारः स ततो गुप्तरीत्या निर्गत्य बहिर्गमनानुभववैकल्येऽपि स्वमतिचातुर्येण सर्वं सम्पाद्य गुरुवर्याणां चरणकमलयोः समुपस्थितोऽभवत् । पूज्यगुरुवराणां नयनसुधाञ्जनकल्पेन पुण्यदर्शनेन वचोऽतिगामानन्दानुभूतिं सोऽन्वभवत् । पूज्यगुरुभिरपि वात्सल्यपूर्णदृष्टिपातेन मधुरवचोभिश्च स भृशं सन्तोषितः । कतिपयदिवसैः भूयो भूयो विचार्य मनसा निर्धारितं कार्यं सुष्ठुरीत्या सम्पन्नम् - इति विचारयतोऽमृतलालस्य मनसि मुहुर्मुहुः हर्षोद्वारा : समायान्ति स्म । नाऽमात् तस्य चित्ते आनन्दः । इतस्तस्य स्वजना गृहान्तर्बहिश्च तमलभमाना, 'नूनं स गुरूणां सविध एव गतो भवेद्' इति विमृश्य कर्पटवाणिज्यपुरं सम्प्राप्ताः । तान् सर्वान् दृष्ट्वाऽमृतलालेन चिन्तितं 'यत् सम्भावितं तदेव जातमिति नाऽत्र किमप्याश्चर्यकरमेतत् । ' तैः पृष्टम् - 'रे! कथं कमप्यनापृच्छ्यैव सहसाऽत्राऽऽगतोऽसि ?' एतन्निशम्याऽमृतलालेनाऽपि विना क्षोभं प्रत्युत्तरं दत्तम् - ‘गुरुभगवतां दर्शनोत्कण्ठयैवाऽत्राऽऽगतोऽस्मि ।' ते च तम्– 'त्वादृशस्य विनीतस्यैवं करणं नोचितम् । यत्किमपि कार्यं त्वया कर्तव्यं भवेत् तदस्माकमनुमत्यैव करणीयं, नैवमेव' इति कथयित्वा तमादाय राजनगरमायाताः । ततो निःसृत्य तारङ्गातीर्थयात्रां कृत्वा गृहमुपेताः । गृहागमनानन्तरं स्वजनैरमृतलालस्य रक्षणाय विशेषरूपेण सज्जता विहिता । कतिचिद् दिवसानन्तरं जनकादिना किमपि विचार्य अमृतलाल: भावनगरनगरे धार्मिकाध्यापकस्य निजज्येष्ठबान्धवस्य श्रीशामजी - इत्यस्य समीपे प्रेषितः । तत्र गमनमपि तस्य इष्टं वैद्योपदिष्टमिव सञ्जातम् । ज्येष्ठभ्राता हि तदा भावनगरे सुविश्रुत आसीत् । तन्नगरवास्तव्या भूयांसो बुद्धिशालिनस्तत्त्वजिज्ञासवश्च प्रतिदिनं तस्य पार्श्वे समागत्य धार्मिकाध्ययनं संस्कृताध्ययनं च कुर्वन्ति स्म । अमृतलालस्याऽपि तत्समीपे निवासो भूरितरलाभजनको जात: । अध्ययनं तु तत्र तेन विहितमेव किन्तु तत्समागमतः तस्योत्तमसंस्कारप्राप्तिः वैराग्यभावाभिवृद्धिरपि सम्यक्तया सञ्जाता । कतिपयदिनानन्तरं स पुनरपि बोयदनगरं समायातः । अनुकूलसंयोगप्राप्तिः नीतिशास्त्रेऽप्येवमुच्यते यद् 'यस्य भावि सुन्दरं वर्तते तस्य सहजतया सानुकूलाः संयोगा: सम्पद्यन्ते । अमृतलालस्याऽपि एवमेव जातम् । ग्रामानुग्रामं विहरन्त एकदा पूज्याचार्यप्रवरश्रीमद्विजयनीतिसूरीश्वरास्तत्र समाजग्मुः । तैरमृतलालस्य वृत्तान्तः कुतोऽपि विदित्वा वन्दनार्थं Jain Education International ४८ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130