Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
-
शगुरुणां ज्येष्टस्थितिकृते स्थिरता से एतादृशा महान्तः प्रभूतगुणगणसमलङ्कृताः पूज्यगुरुभगवन्तः स्वकीयनगरे चातुर्मास्यं करिष्यन्तीति विज्ञाय तन्नगरनिवासिनो नरनार्यः अपूर्वानन्दोल्लाससम्भृतमानसाः समभूवन् ।
चतुर्दशवर्षवया अमृतलालोऽपि स्वमित्रैः सार्धं गुरुभगवतां पार्वे गमनागमनादिकं तद्भक्ति-वैयावृत्त्यादिकं तत्सत्सङ्गं च करोति स्म । गुरुभगवतां सान्निध्यममृतलालाय भृशं रोचते स्म। अत: स भोजनादि कर्तुमेव गृहं गत्वा झटिति तत् सम्पाद्य च उपाश्रयमागच्छति स्म आदिनं च मुनीनां पार्श्व एव उपविशति स्म। तदा हि गुरुभगवतां शिष्यसमुदये श्रीसुमतिविजयश्रीसिद्धिविजय-श्रीदर्शनविजय-श्रीविज्ञानविजय-श्रीप्रभावविजय-श्रीउदयविजयाभिधाना मुनयो बाल्यात्तसंयमा निरन्तरं स्वाध्यायाध्ययनादिषु लीनचित्ता आसन् । शासनसम्राजोऽपि हि पूर्णयौवनमये समये वर्तमाना आसन् । पञ्चत्रिंशद्वर्षवयस्येव ते आचार्यपदवीं प्राप्य उत्तरोत्तरं वर्धमानप्रभावा अभवन् । ननु एतादृशां नैष्ठिकब्रह्मचर्यादि-गुणगरिष्ठानां प्रभावप्रसरे को नाम विकल्पः ? तस्यां चतुर्मास्यां ते पूज्यपादाः सूत्राधिकारे श्रीप्रज्ञापनासूत्रं भावनाधिकारे च श्रीजम्बूस्वामिचरित्रमधिकृत्य व्याख्यानं वाचयामासुः। सिंहगर्जनोद्घोषितं विषयवैविध्येन विशदवैदुष्येन च पूर्णपूर्णं तेषां प्रवचनमाकर्ण्य केषां मनसि न प्रादुर्भवेदहोभावः? तदा अमृतलालोऽपि निजवयस्यैः सह नियतरूपेण व्याख्यानश्रवणं करोति स्म । यद्यपि प्रज्ञापनासूत्रस्य गहनपदार्थानामवबोधे तस्य मतिरपरिपक्वाऽसमर्था चाऽऽसीत् तथाऽपि जम्बूस्वामिचरित्रव्याख्यानं तु स नित्यमव्यवहितमनसाऽशृणोत् । तत्रापि जम्बूस्वामिनः पूर्वभववर्णने व्यावणितं भवदेव-नागिलयोः शिवकुमारस्य च चरितमाकर्ण्य स भृशं चकितविरक्तमानसो बभूव । एतच्चरित्रश्रवणत एव तस्य हदि वैराग्याङ्कराः प्रास्फुटन् ।
श व्यावहारिकाभ्यासः पञ्चमकक्ष्यां यावत् व्यावहारिकाभ्यासं कृत्वा तदनन्तरं स धार्मिकाभ्यास एव दत्तचित्तोऽभवत् । सर्वे स्वजनाः तस्य मनोऽन्यत्र वालनार्थं तं लक्ष्मीचन्द्र श्रेष्ठिनो वस्त्रहट्टे उपावेशयन् । स्वजनानामयं प्रयत्नस्त्वमृतलालस्येष्टं वैद्योपदिष्टमिव समजनि । यतः लक्ष्मीचन्द्रसदृशधर्मनिष्ठपुरुषस्याऽनायासेनैव सान्निध्यमवसादितं तेन। ततश्च प्रसङ्गे प्रसङ्गे तेन सह वार्तालापेन तद्व्यवहारदर्शनेन च तस्य धर्मनिष्ठायाः प्रामाणिकतायाः सत्यवादितायाश्च संस्काराः स्वजीवने
Jain Education International
४६ For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130