Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 60
________________ प्राप्यते तदा सर्वेऽपि गुप्तरीत्या रहसि सम्मील्य परस्परं नैजं वृत्तान्तं प्रकाश्याऽग्रेतनं कार्यक्रमं निर्धारयन्ति स्म, यतः कः खलु समर्थ: मेरुनिश्चलमनोबलवतः पुरुषान् स्वनिश्चयात् चालयितुम्? गुरुवर्याणां बोटादे पादावधारणम् येषां दर्शनेन सर्वेऽपि जनाः स्वं जन्म जीवनं च धन्यं मन्यन्ते स्म ते पूज्यपादाः शासनसम्राजः श्रीमद्विजयनेमिसूरीश्वराः विक्रमीये रस-दर्शन-ग्रह-शशाङ्क (१९६६) मिते वर्षे बोटादनगरं समागताः । तत्रत्या भाविकाः जनाः भक्तिभरोल्लसितहृदया गुरुवरान् नन्तुं तेषां भक्तिं च कर्तुं अहमहमिकया इतस्ततो धावन्ति स्म । समग्रेऽपि नगरे गुरुसमागमजन्यो महानुत्साहः प्रवर्तमानोऽ ऽभूत् । न केवलं जैनाः किन्तु जैनेतरा अपि सर्वतः समागत्य महता महेन गुरुसमागमप्रसङ्गं वर्धापयन्ति स्म । भक्त्युल्लसितमानसास्ते स्थाने स्थाने तोरणालङ्कृतानि मण्डपानि रचयाञ्चक्रुः । तथा विचित्रवर्णैर्ध्वजपताकादिभिश्च समग्रमपि नगरं शोभायमानं व्यधापयन् । ग्रामान्तरादागताः ग्रामीणजना: अदृष्टपूर्वां नगरशोभामिमां निरीक्ष्य परस्परं वार्तयन्ति स्म यद् नाऽस्माभिरेतादृशी नगरशोभा कदाऽपि दृष्टपूर्वा - इति । अहो ! धन्या एते जैनमतानुयायिनः सुश्रावकाः, यैर्भूरितरद्रव्यव्ययं विधाय नगरमिदं सुरलोकतुल्यमतिमनोहरं विहितम् इत्यादि । जिनशासनस्य गुरुभगवतां च बाढस्वरोच्चारितैः जयजयारावैर्वाद्यनिनादैशश्च समग्रमपि नगराकाशं शब्दाद्वैतमयमिव सञ्जातम् । लघुलघुवयस्का बाला अपि हर्षोन्मत्तीभूय नृत्यन्त उत्पतन्तश्च भृशमानन्दमैयरुः । स्फारनेपथ्यालङ्कृता अप्सरस इव शोभमानास्तन्नगरनार्यः सुमधुरस्वरेण गुरुभक्तिगीतानि गायन्ति स्म । केचित् प्रबलभक्त्युल्लसन्मानसाः पुरुषाः दण्डिकाः पहाँश्च करयोर्धृत्वा वर्तुलाकारं विरचय्य गुरुभगवतामग्रे गीतगानपुरस्सरं रासलीलां वितेनुः । किं बहुना ? तदा यज्जातं तत् किल वर्णयितुमशक्यमेव । दृष्ट्वैतत् स्वागतममृतलालोऽपि कामं प्रीतमानस बभूव । तदा तेन मनोरथरूपेण मनसि भावितमपि यद् "मज्जीवनेऽपि यद्येतादृक् सुसमयः पुण्योदयात् समागच्छेत् तदा नूनमहं धन्यातिधन्यो भवेयम् । " तदा केनेदं ज्ञातमासीत् यदनेन विलोकितः स्वप्नः सुचारुतया सफलीभविष्यति ! Jain Education International ४५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130