Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
समागता श्रीहेमचन्ददेशाई-प्रभृतयः समाख्याताः 'श्रूयते यद् भवतां तनयोऽमृतलालो भावनाशीलो वर्तते, यदि भवद्भ्यो रोचते तदा तमस्माभिः सह प्रेष्यताम् । अस्माकं सविधे शास्त्रिणो वर्तन्ते, ते च वः सूनुममृतलालमपि सुतरां पाठयिष्यन्ति ' इति । तेऽपि गुरूणां वचः सरलतया स्वीकृत्याऽमृतलालं गुरुभिः सह प्रहितवन्तः ।
त्यागितपस्विगुरुभगवद्भिः सह विहारकरणस्याऽऽनन्दं तु योऽनुभवति स एव जानाति । गुरुभिः सह विहरन् अमृतलालो क्रमशो वलभीपुरं समाजगाम । तदा तन्नगरस्य 'वळा' इति सञ्ज्ञाऽऽसीत् । तत्र मासत्रयं स्थिरतां कृतवन्तः पूज्यगरुभगवन्तः । अमृतलालस्य तु तत्रत्या स्थिरता विशिष्टलाभदायिनी सञ्जाता । तद्ग्रामवास्तव्यः पण्डित श्रीभगवानदासस्तदा तत्रैव निवसन्नासीत् । तत्पार्श्वेऽमृतलालेन संस्कृतमार्गोपदेशिकाया अध्ययनं कृतम् । ततो विहृत्य गुरवो वीरमगामनगरं प्राप्ताः । चतुर्मास्यपि तत्रैव गमिता । तदा पण्डित श्रीप्रभुदासपार्श्वे मन्दिरान्तः प्रवेशिकाऽभ्यस्ताऽमृतलालेन ।
तत्रैकदा तस्य ज्वरबाधाऽभवत् । भूरितरौषधोपचारैरपि कथमपि निरामयतामलभमान स स्वास्थ्यलाभाय भोयणीतीर्थमागतः । तत्रत्यशान्त-निर्दूषणवातावरणस्य प्रभावेन स सज्जो जातः । तदा योऽवकाशो लब्धस्तत्र स्वामिरामतीर्थ - विवेकानन्दादीनां साहित्यपठनेन स निजवैराग्यभावनां दार्यान्वितामकरोत् ।
ततः स मोरबीनगरे प्रयातः । तदा तत्र विराजमानानां श्रीमतां सन्मित्र श्रीकर्पूरविजयमहाराजानां समागमोऽभवत् । स तैः सार्धं कच्छदेशे माण्डवीग्रामं यावद् गत्वा पुनरपि मोरबीपुरमायातः । तत्सन्निधौ मासद्वयं यावत् निवासेन तेषां त्याग- वैराग्यपूर्णजीवनेन स स्वमनसि सुष्ठु प्रभावितः । तत्र निवाससमये यदा कदाचित् ग्रामबहिर्भागे गत्वा स श्मशान भूमावपि निर्भीकतया कायोत्सर्गादि कुर्वन्नासीत् ।
इतस्तस्य स्वजनाः कुतोऽपि तत्समाचारं लब्ध्वा धावं धावं मोरबीग्राममागतास्तमादाय च बोटादनगरं समागच्छन्।
नरोत्तमदासस्य हितशिक्षा पूज्यगुरुणां पार्श्वे प्रेषणं च
एकदोपाश्रये सामायिकस्थं तं किमप्यध्ययनं कुर्वन्तं दृष्ट्वा तत्पितृव्यपुत्रो नरोत्तमदासो हितबुद्ध्या तमकथयत् - "अरे भद्र ! किमर्थमितस्ततोऽटित्वा वृथा समयं निर्गमयसि ? यद्यभ्यासं चिकीस्तदा शासनसम्राजां पूज्यगुरुभगवतां पार्श्व एव गत्वा तत्र स्थिरीभूय स्वस्थ
Jain Education International
४९
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130