Book Title: Nandanvan Kalpataru 2001 00 SrNo 07
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
44
किं साक्षाद् धिषणोऽस्त्यखण्डधिषणी नाकादवातीर्णवान्
किं वा काव्यपटुः कविः स्वयमयं पातालतोऽत्रेयिवान् । किं वा पौंस्नवतीयमागतवती साक्षात् क्षितौ भारती
त्येवं भव्यमनस्सु सञ्जनयति द्राक् कल्पना यन्मतिः ॥२१॥ येषां चाऽपि प्रभूतभूधरवराः श्राद्धाश्च वित्तान्विता
आसन् भक्तिकरास्तथापि ममता नो तेषु येऽकुर्वत । ते धीराः सदसद्विचारचतुराः श्रीनेमिसूरीश्वराः
Jain Education International
पूज्याः सद्गुरुशेखरा भवचने कुर्वन्तु वो मङ्गलम् ॥ २२ ॥ ( युग्मम्) ११
धिषण इति । धिषणो बृहस्पतिः । अखण्डा धिषणा मेधा यस्य सः । नाकः-स्वर्गः । कविःअसुरगुरुः । पुंसो भावः पौंस्नं, तद्वतीत्यर्थः ॥२१॥
येषामिति । भूधराः - भूपालास्तेषु वरा इत्यर्थः । अत्र श्लोकद्वये शार्दूलविक्रीडितवृत्तम् | युग्मम्॥ ॥२२॥ समाप्तेयं टिप्पणी । आश्विनसितप्रतिपदि सम्पूर्तिमभजदियम् ॥
"L
नीतः स्तुतेर्गोचरतां विनीत
शीलाद्यचन्द्रेण गुरूद्ध एवम् ।
पन्याससूर्योदयनामधेय
गौमुख्यस्य हि शिष्यकेन ||२३|| निजस्मृतेर्बीजविवर्धनाय
यतीनसन्नन्दनसूरिशिष्ट्या ।
द्वाविंशिकां दिष्टविकाशिकां हि
व्यधादमेधा मुनिशीलचन्द्रः || २४|| ११
नयनशून्यनयनबाण (२०२५) मितेऽब्दे भाद्रपदासितचतुर्थीदिवसे चन्द्रवासरेऽहम्मदावादे पाञ्जरापोळान्तर्गतश्रीविजयनेमिसूरिज्ञानशालामध्ये
रचितेयं द्वाविंशिका शीलचन्द्रेण ॥
१०
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130