Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad
View full book text
________________ अर्थालङ्कारनिर्णयः 239 यत्र तु इति / पूर्वत्र न्यूनगुणमिति यल्लोके प्रसिद्धं तदुत्कृष्टगुणमिति विवक्षित्वोपमानं परिकल्पितम् , उत्कृष्टगुणं च न्यूनगुणमित्युपमेयम् / यत्र तु द्वयोरप्यास्तामेकस्योत्कृष्टन्यूनगुणरूपतया न प्रसिद्धिस्तत्र का वार्त्तत्याशङ्कायामुक्तं स्तननिवेशहिमांशुबिम्बाद्योरेकस्य शुकचञ्चूपुटस्तिभ्याबन्धयोर्द्वयोरपि हि न प्रसिद्धिविपर्यासेनोत्कृष्टन्यूनगुणत्वं बोद्धव्यमपि त्वप्राकरणिकप्राकरणिकरूपतयेत्यर्थः / उत्कृष्टन्यूनगुणत्वम् इति कविविवक्षितम् / 5 तत एव इति / यतो लोकप्रसिद्धयवधीरणेन कविविवक्षावशत एवेयम् / गुणबाहुल्येनइति अर्थादुत्कृष्टगुणबाहुल्यकल्पनेन / कस्यचिद इति उपमेयरूपतयाऽप्रसिद्धस्य / उपमानरूपतया इति कविविवक्षितया / उपमेयस्य इति लोकप्रसिद्धया / प्रत्ययाभावाद् इति एकत्र तृतीयाया अपरत्र तु प्रथमायाः / चन्द्रेण इति करणभूतेन / उपमीयते इति उपमितिक्रियासम्बन्धित्वेन परिच्छिद्यते कविना का / उपमीयते इत्यस्य 10 व्याख्यानान्तरमाह चन्द्रसमीपे वा इति / चन्द्रेण करणभूतेन मुखं समीपे क्षिप्यतेऽर्थाच्चन्द्रस्यैव समीपे इति / तत इति / ततोऽत्रेवादिरिति सम्बन्धः / भरणक्रिया इति। पुरस्कृतकर्तृकर्मसद्भावा हि भरणक्रिया भर्तृभर्तव्यतालक्षणं सम्बन्धं जनयित्वा तिरोभवति / ततस्तत्सम्बन्धसद्भावादित्यर्थः। उभयोपादानम् इति सूत्रे। साधारणधर्मप्रत्ययम् इति शाब्दम् / उपमानेन 15 इति लोके प्रसिद्धेन / लोकप्रसिद्धस्य उपलक्षणत्वाच्च केनचित् कस्यचिदपि समत्वापादानमित्यर्थः / उपमानोपमेयनियमस्तु इति / समत्वकल्पने ह्युत्कृष्टन्यूनत्वयोरभावात् कथमुपमानोपमेयव्यवस्थेत्याशङ्कायामुक्तम् / न केवलं गुणबाहुल्यं कल्प्यते तदुत्कर्षापकर्षावपि कल्प्येते इत्यर्थः / उपमानसमता इति / लोकप्रसिद्धेन हिमांशुबिम्बादिनोपमानेनेत्यर्थः / नारङ्गकम् इति नारङ्गप्रतिकृतिर्वस्त्रम् / सूत्र इति स्तिभ्याबन्धात् / वलिरहितः इति 20 अविषमः / लक्षणया इति मर्मरशब्दो बाधितशुष्कपत्रध्वनिलक्षणस्वार्थः स्वार्थगतमुच्चनीचत्वादिवैषम्यरहितत्वं कर्कशत्वं च लक्षयन् तत्सदृशसमत्वकर्कशत्वयुक्तं रोमभेदं लक्षयतीत्यर्थः / उपमानाद् इति उपमितेः / व्यतिरेकम् इति भेदं पृथग्भावमसम्बन्धमिति यावत् / द्योत्यमानेन साम्यलक्षणेनार्थेन सम्बन्धमुभयत्राऽपि श्रुत्यैव प्रतिपादयन्तीत्यर्थः / तेन तत्सद्भावे श्रौती। कमलमिव मुखमित्यादौ हि कमलादिसदृशं मुखादि प्रतीयत इति 25 1. उपमीयते...माह / अयं पाठो नास्ति ग. 1. पुस्तके // 2. -समीपे इति ग. 1 // 3. उपमानेनेत्यर्थः / ग. 1 // 4 लोक -क. ग. 2 / लोके इत्यारभ्य उपमितेः इत्यन्तः पाठो नास्ति ग. 1 पुस्तके // 5. सूत्रं तन्तुः / तत इति / ग. 2. // 6. समं बंध-ग. 2. // 7. तेन तत्...न विरोधः / अयं पाठः ग. 1. पुस्तके न दृश्यते / तेन तद्भावे श्रौती...ग. 2 //

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550