Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 503
________________ कल्पलताविवेके सणां या नात्यन्तं कुत्सिता दशा सा काव्ये प्रयोगे च दर्शनीया / वाक्यभेदेनापि इति / आस्तां विधेयतया पदबन्धत्वेन / विदधान- इति सामाजिकानामित्यर्थः / असाधारण्याद् इति / न हि सामाजिकानां सीतादिः कश्चिदिति सोऽपीतिहासस्वभाव एवेति सम्बन्धः / विकृत- इति / विकृतवेषादीनां हासहेतुतेति सम्बन्धः / विभाव5 साधारण्याद् इति विकृतवेषादयः सामाजिकानामपि हासहेतवो भवन्ति / श्मशान- इति भयजुगुप्सयोरुभयोरपि साधारणोऽयं विभावः / ओष्ठनासेति / ओष्ठादीनां स्पन्दनेन सम्बन्धः / व्याकोशो विकाशः / आकुश्चगमीषन्निमीलनम् / एतद्द्वयं दृष्टया योज्यम् / पार्श्वयोग्रहणं पीडनं तन्द्रेति मोहः / वेषः इति / केशादिरचना / अयं सङ्क्रमणस्वभावः इति / अयमेव सङ्क्रमणस्वभावो नान्ये इत्यर्थः / तद्विभावकः इति / 10 ते एव विकृतवेषादयो विभावाः / अस्य इति आर्यादयस्येति / आत्मस्थपरस्थहास्याभिधायकस्य स्त्रीनीचेति / स्त्रिया उपलक्षितो नीचप्रकृतिरिति समासः / नन्वेकः स्थायीति का भूयिष्ठतेत्याह-षड्भेदाश्चेति / सौष्ठव-इति सौष्ठवमनुल्बणता / द्विजम इति / द्विजा दन्ताः। धीरम् इति मन्थरं कृत्वा ईषत्त्वं निवार्याह-विकसितेरिति / अथ इति स्मितानन्तरं सङ्क्रमणाकाल इत्यर्थः / तद् इति स्मितमेव सक्रान्तं सदेवंरूपतामेतीत्यर्थः / जिह्म- इति / 15 लम्बिताकुञ्चितपुटा शनैस्तिर्यग्निरीक्षिणी / निगूढा गूढतारा च जिला दृष्टिरुदाहृता // इति जिह्माख्यया दृष्टया निरीक्षणं यत्र / विक्रुष्ट- इति विक्रुष्टः श्रवणकटुः / उपघात- इति उपघातः पुत्रादिमरणम् / विभवनाशादयो हि स्वात्मगता नोत्तमप्रकृतेः शोकं कुर्युर्मध्यमाधमप्रकृतीनां तु कुर्यु रेवेत्यादिग्रहणम् / निःश्वास- इति / निःश्वासेना20 ऽनन्तरभावी उच्छ्वासोऽप्यू श्वसनरूपो लक्ष्यते / स्मृतिलोपेन स्तम्भप्रलयो लक्ष्येते / स्तम्भ- इति स्तम्भादयो व्यभिचारित्वाभिनयत्वोपजीवनायैव व्यभिचारिमध्ये निर्दिष्टाः / एवमन्यत्राऽपि / इष्टवध- इति / वधशब्दो बन्धादेरप्युपलक्षणम् / विप्रियमिष्टजनवधादि येन वाक्येनोच्यते तस्य श्रवगात् / सस्वन- इति / अनुभावांस्तवारेण च व्यभिचारिणो25 ऽप्युपलक्षयितुमिदमार्यान्तरम् / बहुवचनं प्रकृतिदेशकालदशाहेत्वादिभेदेनानेकप्रकारत्व ज्ञापनार्थम् / देहस्य आयासनं पातनवेष्टनादि / अभिवात उरस्ताडनादिः / रक्षः इति / रक्षो दानवोद्धतमनुष्याः स्वभावक्रोधनत्वात्तदनुकारिंगिनटे रौद्र आस्वाद्यत इति प्रकृतिश्वर्वणोदयहेतुर्यस्य / स च सङ्ग्रामहेतुकश्चेत्युभयविशेषणसमासः / नन्वेते स्वभावक्रोधना अपि किमुद्दीपनमपेक्षन्ते / ओमित्याह- स च इति / ताडन- इति / ताडनं तलाय

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550