Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 508
________________ अर्थालङ्कारनिर्णयः साम्येनोपमेयस्योत्कर्षेणापकर्षेण किञ्चिदुत्कर्षेण च प्रकृप्रताश्चतस्र उपमानोपमेययोः साम्बेनोपमेयस्योत्कर्षेणापकर्षेण किञ्चिदुत्कर्षेण च विकृताश्च चतस्र इत्यष्टौ प्रपञ्चोक्तयः / निवृत्तमेव इति मृतोऽपि वल्लभो जनो जीवत एव, यदि जीवति तदा त्रिदिवेन न किञ्चित् प्रयोजनमित्यर्थः / छायाम् इति / पूर्वोत्तरोपन्यासरूपां प्राकृतवैकृतसाम्यादिरूपां च / तेन' दृष्टान्तोक्तिच्छायया विधावृजुपूर्वा वक्रोत्तरा च निषेधे ऋजुपूर्वा वक्रोत्तरा चेति चतस्त्र: 5. प्रपञ्चोक्तिच्छायया विधावृज्वी वक्रा च / निषेधे ऋज्वी वक्रा चेति च चतस्र इत्यष्टी.. प्रति वस्तूक्तयः [ // 66 // ] / . प्रतिपिपादयिषुः अपि इति लक्षण- इति संज्ञाशब्दश्रवणाद्गौणस्य चार्थस्य रूपकविषयत्वेन प्रतिज्ञानादीदृक् प्रतिपादनेच्छोपवर्णिता / यदि हि लाक्षणिकस्यार्थस्या-.. लङ्कारभावं प्रतिपादयितुं नेच्छेत्तदा गौणस्यैवार्थस्य प्रकारान्तरं परिकल्प्यानध्यारोक्ति- 10 तद्भावो गौण एवार्थो वक्रोक्तेविषय इत्येवं परं लक्षणमेतस्या विदध्यान्न च लक्षणाशब्द प्रयुञ्जीत / अथवाऽभिधेयेन सम्बन्धादित्यादौ सादृश्यनिबन्धनाऽपि शब्दवृत्तिलक्षणाशब्दवाच्यत्वेनोपनिबद्धा दृश्यते / तथैव च कविलोकेऽपि भूयसी प्रसिद्धिरिति तदनुसरणेनात्र न किञ्चिदयुक्तम् / केवलं तद्भावानध्यारोपो वक्तव्य इति / गौण एवायम् इति रूपकमेवात्रेत्यस्याऽभिप्रायः [ // 67-68 // ] / सन्देहनिर्णयान्तः इति / एष ह्यर्थः 15 संशये निर्णीतः / चित्ते निवेश्य इति अत्र शक्तस्य स्रष्टुः सम्बन्धिनी स्त्रीरत्नसृष्टिरिति तत्त्वानुपातित्वम् अपरेत्यतत्वानुपातित्वं चेत्युभयात्मा वितर्कः [ // 69-70-71-72 // ] / एतद् इति / अर्थापत्तिद्वयमिदमित्यर्थः [ // 73 // ] / थ इति पादपूरणे निपातः प्रसीद इति / अत्र रोषस्य खकुसुमकल्पत्वेनात्यन्ताभावः / न मर्त्यलोकः / इति / अत्र मरणलक्षणस्य प्रध्वंसांभावस्याऽग्रे न भवनमिति 20 प्रागभावः / निवृत्तमेव इति / अत्र मृत इति प्रध्वंसस्तस्य च प्रध्वंसो जीवतीति / नामलितम् इति / अत्र मलितमिति मलनं प्रध्वंसस्तस्य च समस्तेन नञा प्रागभावः / तस्याप्यसमस्तेन नञा भाव इति / एषा प्रवासम् इति अत्र प्रवासमिति संयोगप्रध्वंसस्तस्य चातीत्येति प्रध्वंसस्तस्याऽपि याता पुनः संशयमिति प्रध्वंसाभावः / शासनेऽपि इति / अत्र धनञ्जयादन्य एष इति न धनञ्जयोऽन्य एवष नान्य एष धनञ्जय एवेतीतरे- 25 तराभावस्तस्य चाभाव इति / मावगा इति / अनाप्त- इति अनाप्तपुण्योपचयैर्दुरापेति सामर्थ्याभावः / दिवो वीतबलाहकाया वृष्टेस्तुल्येत्यत्यन्ताभावः / तस्योभयस्याऽपि भवदर्शनसम्पदेषेत्यभावः [ // 74 // ] / . कमलेक्षणे इति इति एष रूपकोपमेययोः सन्देहात् सन्देहसङ्करः / शब्दा 1. विष्णुः // 2 अर्जुनः //

Loading...

Page Navigation
1 ... 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550