Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 505
________________ 316 कल्पलताविवेके नाटयतन्त्रप्रसिद्धो यो रसशब्दस्तदभिधेया इत्यर्थः / चित्तवृत्तिभेदेन इति / रतेरमी विभावादयो हासस्यामी इत्येवंलक्षणेन संयुज्यमानानामिति / विभावानुभावेत्यादि रसस्तत्रोक्तसंयोगशब्दार्थकथनम् / अस्याभिप्रायः इति / तथाविधोदाहरणदर्शनात् / पदार्थः इति / काव्यधर्मरूपो रूपकादिसदृशः / पदार्थः इति रूपकादिसदृशः / पक्षी इति 5 पक्षिपङ्क्तिरेव रशना यस्या इति सम्बन्धः / इयं नदी इति / इदम्शब्दपरामर्शलब्धोऽयं नदीलक्षणोऽर्थः / न पुनः श्लोकोपात्तनदीशब्दसम्बन्ध इयमित्यस्योपदर्शितः / तस्य हि भावशब्देन समासे गुणीभूतत्वात् / एवं योजनायां हि किलाव्यक्ते गुणसन्दोहे नपुंसकवचनमेव प्रयुज्यत इति / कथमियमिति स्त्रीत्वेन निर्देश इति चोद्यस्य नावकाश इत्यभिप्रायः / समुदयः इति संयोगः / तथा10 विध- इति तथाविधा अनेकार्थाः / निर्विषयत्व - इति / विषयो विभावः / लक्षणइति विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिरित्यस्य लक्षणस्य / निश्चायक- इति विनिहतेषु प्रोषितेषु च पतिषु प्रमदाजन एवं विचेष्टमानो विलोक्यत इत्यालम्बनविभावादिस्वकारणसामग्र्याः संदिग्धत्वात् / विप्रलम्भे तु केयं प्रवास रुचितेत्यादि विशिष्टं लिङ्गमुपलभ्यत इत्याह-प्रवासविप्रलम्भस्येति / ननु च प्रबोधावसरे 15 करुणस्यैव रिक्तबाहुवलयत्वरोदनलक्षणतथाविधविभावानुभाववत्त्वोपपत्तेर्वाक्योपारूढपदार्थ समर्प्यमाणत्वं स्वप्नान्तेऽपि प्रियतमेषु विप्रियमसम्भावयमानः प्रमदाजनः प्रवासजमेव विप्रयोगं मन्यत इति युक्त्या तथाविध विभावानुभाववत्वं चोभयमपि सम्भवतः करुणस्योपपन्नमिति झगिति कथमसौ विप्रलम्भः परिस्फुरतीत्याह- प्रबोधावसरे चेति / अथ करुणरसस्य निश्चयः तर्हि कुतो विप्रलम्भस्य पृथक्त्वव्यपदेशगन्धोऽपीत्याह- करुण20 रसस्येति / तस्यैव इति करुणरसस्यैव / व्यभिचाचित्येति व्यभिचारिणो रतिस्वप्नविबोधप्रभृतयः / यदि वा इति / अनेन भवद्विनिहतवल्लभ इति व्याख्यानादन्यद् व्याख्यानमभ्युपगम्यत इत्यर्थः / न पुनः इति / ननु पर्यायोक्तन्यायेन त्वया रिपवो हता इति युष्मदर्थ विषयः प्रेयोरूपः प्रधानभूतो वाच्यार्थो वाच्यान्तरवक्तव्योऽनेन करुणस्वभावार्थप्रति25 पादकेन वाच्येन समjमाण उपनिबद्धो न चान्योपदेशन्यायेन निमित्तवताऽनेन करुणास्मनार्थेनाप्रस्तुतेन प्रस्तुतो निमित्तभूतः प्रेयोरूपोऽर्थोऽत्र प्रत्याय्यमान उपनिबद्ध इत्यर्थः / कवि- इति / कविकर्म काव्यं प्रभवन्तीति / कुत इत्याह-- स्वरूपादिति शब्दार्थेति च / स्वरूपाद इति स्वरूपादतिरिक्तस्य परस्याप्रतिभासनादिति नोपपद्यत इति सम्बन्धः / अलङ्करणत्वानुपपत्तिः इति / पूर्वं हि परस्याप्रतिभासनादिति दूषणप्रपञ्चेऽलङ्कार्यश्चेद्र30 सस्तदन्येन केनचिदलङ्करगेन भवितव्यं, न तु तस्यैवालङ्करगत्वमुपपद्यत इति यहूषणमुप

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550