Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 489
________________ 300 कल्पलताविवेके रोमाञ्चाश्रुपरिदेवितादिभिरनुभावैरभिनेयः / सदाहस्तु विक्षिताङ्गकरचरगभूम्यभिलाषाऽनुलेपनशीताभिलाषपरिदेवितोत्क्रुष्टादिभिः / ये चान्ये व्याधयस्तेऽपि मुखविकूणनगात्रस्तम्भस्तनितोत्क्रुष्टवेपनादिभिरभिनेयाः / अत्र श्लोकः समासतस्तु व्याधीनां कर्त्तव्योऽभिनयो बुधैः / स्रस्ताङ्गगात्रविक्षेपैस्तथा मुखविकूगनैः // ज्वरस्य सर्वव्याधिमध्ये प्रधानत्वादुपादानम् / मदनविकारे च ज्वरस्य सम्भवात् / व्याधिसमये च या तत्तद्व्याधिसमुचिता व्याधिमतश्चित्तवृत्तिः सैवेह व्याधिशब्देन विवक्षिता। व्याधिसन्निवौ हि चित्तं न स्वरूपेणावतिष्ठत इति // 29 // उन्मादो नाम इष्टजनवियोगविभवनाशाऽभिघातवातपित्तश्लेष्मप्रकोपादिभिर्विभावैः 10 समुत्पद्यते / तमभिनयेदनिमितहसितरुदितोत्क्रुष्टाऽबद्धप्रलापशयनोपविष्टोस्थितप्रधावितनृत्तगीतपठितभस्मपांस्ववधूलननिर्माल्यचीरघटवक्तशरावाभरणस्पर्शनोपभोगैरन्यैश्चाव्यवस्थितचेष्टाकरणादिभिरनुभावैः / भवति चाऽत्र इष्टजनविभवनाशादभिघाताद्वातपित्तकफकोपात् / * विविधाच्चित्तविकारादुन्मादो नाम सम्भवति / / अनिमित्तहसितरुदितोपविष्टगीतप्रधावितोत्क्रुष्टैः / अन्यैश्च विकारकृतैरुन्मादं सम्प्रयुञ्जीत // इष्टजनवियोगादुत्तमस्यापि विप्रलम्भे भवत्युन्मादः पुरुरवस इव / विभवनाशात्त्वनुत्तमस्य / भवनशोके व्यभिचारी / अत एवानुभावाः प्रकृत्यौचित्येन विभजनीयाः / चित्तं विकरोतीति चित्तविकार इति टीकाकाराः। भट्टतोतस्तु / चित्तस्य यो विकारो विकीर्णता 20 एकत्राविश्रमणमनिश्चये सति तत उन्मादो भवतीति / तथाहि- पुरुरवसो झटिति प्रियामपश्यतस्तैन्निमित्तं च किञ्चिदप्यलभमानस्योन्मादः / एतदेव हि प्रति जागरित कविकुलचक्रवर्तिना तिष्ठेत् कोपवशादित्यादिना / अनिमित्तता प्रसिद्धनिमित्ताभावात् / व्याधावन्तर्भूतोऽप्युन्मादो विप्रलम्भादौ प्रयोगसौन्दर्यविचित्रचेष्टाभिः करोतीति पृथगुपात्तः / एवमपस्मारे वाच्यम् / स हि बीभत्सभयानकादेर्वैचित्र्यावहः // 30 // 25 मरणं नाम व्याधि जमभिघातजं च / तत्र यद्दोषवैषम्यगण्डपिटकज्वरविचर्चिकादिभि रुत्पद्यते तद् व्याधिप्रभवम् / अभिवातजं तु शस्त्राहिदंशविषपानश्वापदगजतुरगरथयानपातविनाशप्रभवम् / एतेष्विदानीमभिनयविशेषान् वक्ष्यामः / तत्र व्याधिजं विषण्ण 1. उत्तममध्यमाधमरूप ख एव // 2. प्रियाऽदर्शन ख // 3. कालिदासेन // 4. वातादीनाम् // 5. अवयवानाम् //

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550