Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 492
________________ अर्थालकारनिर्णयः .. / अन्ये त्वाहुः इयतामेव प्रयोगे सौन्दर्य भवति / तथा ह्येतावत्स्वेव सहचारिष्ववस्थाविशेषेषु प्रयोगे प्रदर्शितेषु स्थायी चर्वणयोग्यो भवति / एके तु मन्यन्ते एते तावद्विज्ञेया एतज्ज्ञानदिशा त्वन्येषां लक्षणमूहयमिति / रसकारणत्वेन इति रसजनकत्वेन / भावानाम् इति रत्यादीनाम् / चित्तवृत्त्यात्मकत्वाद इति व्यभिचारिषु स्थायिनि च सम्बन्धनीयम् / न सह इति क्रमभावित्वाच्चित्तवृत्तिविशेषाणाम् / स्थायी तु इति स्थायि-5 . व्यपदेशभाक् पुनरनुपचित एव स्थायीत्यर्थः / अनुकार्ये इति मुख्यवृत्त्या रामादौ रामादिरूपतानुसन्धानवशान्नर्तकेऽपीत्यर्थः / विभावाद्ययोग इति / किल स्थाय्येव वासनात्मतया स्थितोऽवगम्यमानो विभावादिभिः संयुक्तो रसः इतश्च विभावादिमिः संयोगात् प्राक् / स्थायिनो विभावादि लिङ्गं विनाऽवगतिरपि कथमित्येको हेतुः 1 / - अपि च. स्थाय्येव विभावादिभिरुपचितो रस इति स्थाय्यनुवादेन रसविधेयतायां 10 स्थायिभावाः पूर्वमभिधेयाः स्युः / अथ चादावेव रसानामुद्देशो लक्षणं चाऽभिहितं पश्चात्तु स्थायिनामिति द्वितीयः 2 / अन्यच्च स्थायिनां ये विभावादयोऽभिहितास्तैरेव योगे स्थायिनः स्फीता भवेयू रसा ... स्युरित्यर्थः / अयोगे तु स्थायिन एवेति किं रसावस्थाऽपरपर्यायायां स्फीतदशायां पुनर्विभावादिप्रतिपादनेन / इतश्च स्थायिरसानामुपभयेषामपि विभावादयः प्रतिपादिताः / 15 केवलमेकेषां लेशेनापरेषां विस्तरेण इति / तथा ह्यत्साहो नामोत्तमप्रकृतिः / स चाविषादशक्तिशौर्यादिभिर्विभावैरुत्पद्यते / तस्य धर्यत्यागवैशारद्यादिभिरनुभावरभिनयः प्रयोक्तव्यः / वीरो नामोत्तमप्रकृतिरुत्साहात्मकः / स चासम्मोहाध्यवसायनयविनयबलपराक्रमशक्तिप्रतापप्रभावादिभिर्विभावैरुत्पद्यते। तस्य धैर्यस्थैर्यत्यागशौर्यवैशारद्यादिभिरनुभावैरभिनयः प्रयोक्तव्य इति तृतीयः 3 / / 20 ___इतरच्चानुपचितः स्थायी स्थाय्येव तूपचितो रस इत्युच्यमाने एकैकस्य स्थायिनो मन्दतममन्दतरमन्दत्वादिविशेषापेक्षया आनन्त्यापत्तिः / रसस्याऽपि तीव्रतीव्रतरतीव्रतमत्वादिभिरसङ्ख्यत्वप्रसक्तिरिति चतुर्थः 4 / अथोपचयकाष्ठां प्राप्त एव रस इत्युच्यते, तर्हि स्मितमथ हसितं विहसितमुपहसितं चापहसितमतिहसितमिति षोढात्वं हास्यरसस्य कथं भवेदिति पञ्चमः 5 / 25 अपरं चोत्तरोत्तरप्रकर्षतारतम्यवशेन / प्रथमे त्वभिलाषः स्याद् द्वितीये त्वर्थचिन्तनम् / अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् / / 1. भरते / ख. // 2. एतस्य व्याख्या // 3. स्थायिनाम् ख. एव // 4. रसानाम् ख एष // 5. लक्षणान्तरम् //

Loading...

Page Navigation
1 ... 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550