Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 500
________________ अर्थालङ्कारनिर्णयः सत्यारामधिया वस्तुसती नटबुद्धिरनया च सा प्रतिबध्यत इत्यन्योन्यप्रतिबन्धः / तत्र इति नटे / तद्बासना इति तच्छब्देन रतिपरामर्शः / नियत- इति / नियतस्वात्मैकगतकारणतया / विभावादिभिः इति / पर्यायतो गुणप्रधानभावेनावस्थितैरित्यर्थः तत्र विभावप्राधान्यं यथाकेलीकन्दलितस्य विभ्रममधोधुर्यं वपुस्ते दृशौ, भङ्गीभङ्गुरकामकार्मुकमिदं भूनर्मकर्मक्रमः / आपातेऽपि विकारकारणमहोवक्त्राब्जजन्मासवः, सत्यं सुन्दरि वेधसस्त्रिजगतीसारं त्वमेका कृतिः / / अत्र च विभावभूतं तत्सौन्दर्य प्राधान्येन भाति / तदनुगतत्वेन केलीविभ्रमभङ्गुरनर्मपदमहिम्ना चानुभाववर्गो भङ्गीक्रमविकारादिशब्दबलाच्च व्यभिचारिवर्गः प्रतिभातीत्यत 10 एव नास्फुटत्वाशङ्काऽत्र रत्यास्वादमये शङ्गारे विधेया / अनुभावप्राधान्यं यथा / यद्विश्रम्य विलोकितेषु इति / अत्र विश्रम्येति बहुश इति प्रतिदिनमिति पदसमर्पितो व्यभिचारिगणः कृष्ण इत्यादिपदार्पितश्च विभावो गुणत्वेन प्रतिभासते / विश्रान्तिलक्षणस्तम्भविलोकनवैचित्र्यगात्रतानवतारतम्यपुलकवैवर्ण्यप्रभृतिस्त्वनुभावसञ्चयः प्रधानतया। पुलक- इति तनुतानिर्देशसाहचर्यात् पुलककण्टकप्रतीतिः / अत्र व्यभिचारिणां तु 15 प्राधान्यम् / तद्विभावानुभावप्राधान्यकृतम् , तत्राचं यथा आत्तमात्तमधिकान्तमुक्षितुं कातरा शफरशङ्किनी जहौ / अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरलाञ्छितम् // इत्यत्र सुकुमारमुग्धप्रमदाजनभूषणभूतस्य व्यभिचारिवर्गस्य वितर्कत्रासशङ्कादेः प्राधान्यं तद्विभावानां प्राधान्यात् सौन्दर्यातिशयकृतम् / आत्तमित्याद्यर्पितानुभाववर्गस्तु 20 तदनुयायी / तदनुभावप्राधान्यकृतं च स्वयमुदाहार्यम् / एवं द्वयप्राधान्यभेदे समप्राधान्ये चोदाहार्यम् / किन्तु समप्राधान्य एव रसास्वादस्योत्कर्षस्तच्च प्रबन्ध एव भवति / वस्तुतस्तु दशरूपक एंव / तद्विचित्रं चित्रपटवद्विशेषसाकल्यात् / तदुपजीवनेन मुक्तकेऽपि / तथा च तत्र सहृदयाः पूर्वापरमुचितं परिकल्प [?] इगत्र वक्ताऽस्मिन्नवसरे इत्यादि बहुतरं पीठबन्धरूपं विदधते / 25 __ शृङ्गारादि इति रसवदर्शितस्पष्टेत्यत्र श्लोके / तद्विपरीतः इति / सापेक्षभावशङ्गारविपरीतः / तनिमित्तम् इति / करणस्य निमित्तभूतः / तद्विभाव- इति / रुधिरान्त्रप्रभृतयो हि ये भयस्य विभावास्ते बीभत्सस्यापीति तद्विभावसाधारण्यसम्भवः / ननु 1. वसन्तस्य ख. एव. // 2 त्रयाणां प्राधान्ये ख. // 3. -ऽभिनेये ख. एव // :

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550