Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 498
________________ अर्थालङ्कारनिर्णयः 309 साधारण्य तथाऽत्राऽपीत्यर्थः / अन्योन्य- इति / काव्याप्तिर्वस्तुसन्तो वस्तुसद्भिश्च काव्यार्पिता देशादयोऽन्यथाभावेन प्रतिबध्यन्त इत्यन्योन्यप्रतिबन्धः / रम्याणि वीक्ष्य इति / इदं प्रतीतिसंविच्चमत्काराऽपरपर्यायत्वेनाऽभ्युपगता स्मृतिरूपत्वेनास्फुरन्ती . या स्मृतिस्तस्यामुदाहरणम् / अत्र हि स्मरतीति या स्मृतिरुपदर्शिता सा. न तार्किकप्रसिद्धा पूर्वमेतस्यार्थस्याननुभूतत्वादपि तु प्रतिभानापरपर्यायसाक्षात्कारस्वभावेयमिति / रतिरेव / इति रतिमात्रम् / विशेष इति विशेषान्तरं देशकालाश्रयाद्यालिङ्गितत्त्वम् / नानिर्वाच्येति वस्तुभूतत्वात् / तदारोपादि इति / तच्छब्देन लौकिकी परामृश्यते / आरोपो वस्त्वन्तरे वस्त्वन्तरोपचारः / आदिग्रहणेनाध्यवसानम् / सम्भावना इति / अयोग्यता व्याख्यानमिदम् / तेन सप्तैव विघ्नाः / निःसामान्य- इति / सुकुमारराजपुत्रादीनां निःसामान्योत्कर्षोपदेशविषया या व्युत्पत्तिः सैव प्रयोजनं यस्य तस्मिन् / यथासम्भवम् 10 इति / तज्जिहासया इति तद्गोपनेच्छया इति चास्मिन् द्वये तच्छब्देन दुःखसंवित् परामृश्यते / कार्यों नाऽतिप्रसङ्गः इति / अनेन ग्रन्थेन पल्लवप्रदर्शितेन यत्पूर्वरङ्गानिगृहनं तेनेत्यर्थः / प्रस्तावना इति / सुवाक्यमधुरैः श्लोकैर्नानाभावरसान्वितैः / / प्रसाद्य रङ्गं विधिवत् कवेर्नाम च कीर्तयेत् // 15 प्रस्तावनां ततः कुर्यात् काव्यप्रज्ञापनाश्रयाम् / .. इत्यनेन यत् प्रस्तावनावलोकनं तेनेत्यर्थः / स्वरूपस्य निनवाद् इति / रूपान्तरस्य चाऽऽरोपितस्य सत्यतदीयरूपनिह्नवमात्र एव पर्यवसानादिति च प्रतीत्य भवने हेतुद्वयम् / स्वरूपे इति आरोपिते रूपे / प्रतिपदार्थ- इति / पदार्था आसीनपुष्पगण्डिकादयो रञ्जनोपयोगिनः / शब्दलिङ्ग इति / शब्द एव लिङ्गं शब्दलिङ्गम् / न 20 प्रतीतिर्विश्राम्यति इति / न प्रतीतिः स्फुटा भवतीत्यर्थः / स्फुटप्रतीतिरूपेति / स्फुटत्वाभावे हेतुरयम् / तदपसारणाद् इति / अलातचक्रादिप्रमित्यपसारणात् / अभिनया इति / प्रतीतेः प्रतीतिस्फुटत्वस्य चोपायभूता एवैते इत्यर्थः / तदतिरिक्तः इति / तदन्यः प्रधानभूत इत्यर्थः / तथा इति संविद्विश्रान्तिलक्षणचर्वणापात्रम् / तथा चर्वणापात्रत्वे हेतुभूतं तावत् कासाञ्चित् स्थायिसंविदां पुरुषार्थनिष्ठत्वेन प्राधान्यमुपदर्शयति / 25 तत्र इति / पुरुषार्थनिष्ठा इति काश्चित् संविदः प्रधानमिति सम्बन्धः / तत्पधानेषु इति क्रोधप्रधानेषु रूपकेषु / भावः इति शमनामा / शोकसंविच्चवणेऽपि इति / लोकप्रसिद्ध्या सम्भाव्यमानदुःखात्मकेऽपीत्यर्थः / हृदयविश्रान्तिः इति / आनन्द इत्यर्थः / 1. नाटकार्थ // 2. दर्शनम् //

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550