Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 494
________________ अर्थालङ्कारनिर्णयः 305 भिन्नविभक्तिकमपि स्थायिना रसनिष्पत्तिरिति स्थाय्येव रसीभवतीति वेत्येवंरूपतया। तेन इति / यतः प्राक्कथमपि न स्थायी प्रतीयते / विभावादियोग एव ह्यनुकरणरूपः स प्रतीयते। अत एव शङ्गारो नाम रतिस्थायिभावप्रभव उज्ज्वलवेषात्मक इति तल्लक्षणं समीचीनम् / अर्थक्रिया इति / तेन स्थाय्यनुकरणरूपो रस इति नानुपादेयमित्यर्थः / न च स्फुरन्ननुभवः कथञ्चित् पर्यनुयोक्तुं शक्य इत्याह- न च इति / नर्तक एव इति / सुखित्वधर्मेण सहशेनाभेदोपचाराद् राम एवायमित्यर्थो लभ्यते / अयं न सुखी इति अयं न राम इत्यर्थः / प्रतिभातीति / सन्देहस्तत्सदृश इति रामः स्याद्वा न वायमित्येषोऽपि सन्देहार्थो व्याख्येयः / तत्त्वनर्त्तक एव सुखीति / अयमेव राम इति च विपर्ययोऽयं न सुखीति धीरिति यः सुखीत्यादिना व्याख्यातम् / नासौ इति / न पुनरसावेवाऽयं राम एवायमिति प्रतीतिरस्ति / अनेन सन्देहविपर्ययावपि व्यवच्छेद्यो सोते। विरुद्धा इति / विरुद्धा सन्देहाद्यात्मिका / अविवेचित इति असंवेदितानेकरूपताप्रतिभासः। रोमाञ्च- इति / 10 सात्विका अनुभावाः / भुजाक्षेप- इति आङ्गिकाः / भ्रूक्षेप इति उपाङ्गिकाः / तैः इति कृत्रिमत्वेन गृहीतैः / कारणान्तर इति प्रसिद्धादतिलक्षणात् कारणाद्रत्यनुकरणं नाम कारणान्तरम् / तत्प्रभवाश्चैदनुभावाः स्युस्तथैव च विशेषविदा यदि विज्ञायेरन् तदा रत्यनुकरणलक्षणस्य वस्त्वन्तरस्यानुमानं समञ्जसं स्यात् / न चैवं तत्कथमिव रत्यनुकरण- 15 प्रतीतिः / अविशेषविदा च तथाविधानुभावदर्शने रतिरेवानुमीयते / तच्च मिथ्याज्ञानमेवेत्यर्थः / यथा इति / गोमयप्रभवाद वृश्चिकाद्गोमयस्यैवानुमानं, वृश्चिकप्रभवाद्वा तस्माद् वृश्चिकस्यैव युक्तमिति सुशिक्षितपक्षे दृष्टान्तोऽयम् / अन्यद् वृश्चिकप्रभवाद् वृश्चिकाद्गोमयस्यानुमानं मिथ्याज्ञानमेवेति / यत्राऽपि इति / अकृत्रिमत्वग्रहणपक्षोऽयम् / नैतावता इति / क्रुद्धेन सदृशो नट इति हि सादृश्यमानं तत् न तु क्रुद्धानुकारो नटः क्रोधानुकारो 20 वा रौद्रः कश्चिद्वस्तुभूत इत्यर्थः / तथा प्रति इति अस्येयमिति यो न सम्बन्धप्रतीत्युत्पादहेतवः [ तुः ? ] / तस्यैव इति / स्थायिन एव / अस्मिन् इति / अस्मिन्नटेऽयं स्थायी। उक्तम् इति जडत्वेनेत्यादिना / नाऽपि वास्तु इति तृतीयः पक्षः / अन्यथाऽपि इति / सदृशकरणार्थत्वं परिहृत्यानुसरणार्थत्वेनाऽपि / तदनुकारेऽपि च इति / तच्छब्देन रतिः परामृश्यते / अभ्युपगमोऽयम् / अनुकरणरूपत्वादेव च नामान्तरं प्रवर्तत इति हि 25 तत्रभवन्तः / ततश्च रत्यनुकारे कान्तवेषगत्यादयोऽप्यनुकार्याः / अनुकरणरूपत्वे च तेषां कृतानि नामान्तराणि यैस्ते व्यपदिश्यन्ते मुनिवचनेषु तावन्नोपलभ्यन्त इति भावः / . तत्र यदि इति / अनेन ग्राह्य इत्यन्तेन परोक्तस्य सामान्येनायमों यथा हरितालादि१ शंकुक ख एव // 39 .

Loading...

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550