Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 488
________________ . अर्थालङ्कारनिर्णयः 299 - अमर्ष इति / प्रतिकरणेच्छारूपोऽयं क्रोधादन्य एव / ध्यानं निर्लक्षतयाऽवस्थानमिति चिन्तातो भिद्यते / उत्साहसम्पन्न इति निरुत्साहानां प्राकृतानां न भवतीत्यर्थः / उत्साहाऽध्यवसायशब्देन तदनुभावाः // 25 // अवहित्थं नाम आकारप्रच्छादनात्मकम् / तच्च लज्जाभयगौरवमयादिभिर्विभावैरुत्पद्यते / तस्यान्यथाकथनावलोकितकथाभङ्गकृतकधैर्यादिभिरनुभावैरभिनयः प्रयोक्तव्यः। 5 भवति चाऽत्र धार्टयजैह्मयादिसम्भूतमवहित्थं भयात्मकम् / तच्चागणनया कार्य नातिचोत्तरभाषणात् // आक्रियते बहिः प्रकाश्यते चित्तवृत्तियस्तेषां भ्रविकारमुखरागादीनां संवरणमाच्छादनकारि यच्चित्तवृत्तिरूपं तदवहित्थं न बहिस्थं चित्तं येनेति निरुक्तं पृषोदरादित्वाच्च रूप- 10 मित्याहुः / जैझयममोपनीयेऽपि गोपनेच्छाकुटिलाशयत्वम् / प्रगल्भो ह्याकारं संवरीतुं जानातीति धाष्टर्यग्रहणम् / सलजोऽपि ह्यप्रगल्भो न जानाति तेन धाष्टयं सर्वविभावेश्वऽस्याऽनुयायीति मन्तव्यम् / अगणना तस्यार्थस्यावलेपेन स्थापनम् // 26 // ___ अथोग्रता नाम चौर्याभिग्रहणनृपापराधा सत्प्रलापादिभिर्विभावैरुत्पद्यते / तां च वधबन्धताडननिर्भर्त्सनादिभिरनुभावैरभिनयेत् / भवति चाऽत्र चौर्याभिग्रहयोगान्नृपापराधात्तथोग्रता भवति / वधबन्धताडनादिभिरनुभावैरभिनयस्तस्याः // चौर्यमुपलक्षणमकार्याणां तन्निमित्तं गृहीते जने राजादीनामौत्र्यं निर्दयत्वम् / एवं राजन्यपराध्यत्यसत्प्रलापिनि मिथ्यादोषवादिनि // 27 // मतिर्नाम नानाशास्त्रचिन्तनोहापोहादिभिर्विभावैरुत्पद्यते / तामभिनयेच्छिष्योप- 20 देशार्थविकल्पनसंशयच्छेदनादिभिरनुभावैः / भवति चाऽत्र नानाशास्त्रार्थनिष्पन्ना मतिः सञ्जायते नृणाम् / . शिष्योपदेशार्थकृतस्तस्यास्त्वभिनयो भवेत् // मतिरिति / अपूर्वप्रतिभानरूपा / ऊहापोहावन्वयव्यतिरेकप्रत्ययौ विधिनिषेधविषयौ वा सम्भावनाप्रत्ययौ / नानाशास्त्राणां योऽर्थः प्रयोजनं विवेकलाभस्ततः सम्पन्ना जाता 25 शिष्योपदेशलक्षणेन प्रयोजनेन ये देहविकारा भूल्क्षेपादयस्तैरस्या अभिनयः // 28 // .. व्याधिर्नाम वातपित्तकफसन्निपातप्रभवस्तस्य ज्वरादयो विशेषाः / ज्वरस्तु द्विविधः / सशीतः सदाहश्च / तत्र सशीतः प्रवेपितसर्वाङ्गोत्कम्पनहनुचलनास्यविकूणनमुखशोषण 1. औश्यामति योगः // 2. जने //

Loading...

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550