Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 481
________________ 292 कल्पलताविवेक निर्देशः / सर्वधातूनां ह्यर्थोऽन्योऽन्यतो भिद्यत एव / तथा हि खेल गताविति यद्यपि पठ्यते तथाऽपि सविलासगमनमेव विशिष्टं खेलनमिति प्रसिद्धं खेखेलगामीत्यादौ / प्रसनं च अक्रमकगर्वक्रोवावेशनिर्भरनिगरगविशिष्टमदनं न त्वदनमात्रमेवमन्यत्रावधेयम् / हृदये वितर्कस्योपगमो यस्याः सकाशाद् वितर्कादोपगमो यस्याः / अनेन चिन्तायाः पूर्वोत्तर5 कक्ष्ययोर्वितर्को भवतीति शिक्षयति // 9 // ... मोहो नाम दैवोपघातव्यसनाऽभिघातभयावेगपूर्ववैरानुस्मरणादिभिर्विभावैः समुत्पद्यते / तस्य निश्चैतन्यभ्रमणपतनघूर्णनादिभिरनुभावैरभिनयः प्रयोक्तव्यः भवत्यपि च अस्थाने तस्करान् दृष्ट्वा त्रासनैर्वा पृथग्विधैः / . . तत्प्रतीकारशून्यस्य मोहः समुपजायते // . ...... 10 अत्रार्या व्यसनाऽभिघातभयपूर्ववैरसंस्मरणजो भवति मोहः / ... सर्वेन्द्रियसम्मोहात्तस्याऽभिनयः प्रयोक्तव्यः // ' ... दैवोपधातोऽन्युदकाग्रुपद्रवः / व्यसनं पीडादि / तत्कृतोऽभिघात इति केचित् / अभिघातस्तु मर्मप्रहारादिः पृथगेव पुष्कलार्थः / भावान्तरमपि विभावतामेतीत्याशयेनाह15 भयेति / व्यभिचारिणि च स्थायीभावो यद्यपि विभाव एव / तथाऽपि भयंग्रहगं भये मोहस्य बाहुल्यसूचनार्थम् / भ्रमणमनवस्थानं चित्तस्य घूर्णनं तु देहस्य / तत्प्रतीकारशून्यस्येत्यनेन मोहस्य प्रागवस्थां किंकर्त्तव्यतालक्षणामपि मोहशब्दवाच्या दर्शयति सर्वेन्द्रियसम्मोहादित्यनेनाऽन्तरस्य संवेदनस्य मूढेऽप्यनष्टतां दर्शयन् मोहस्य चित्तवृत्तिरूपता माह // 10 // स्मृतिर्नाम सुखदुःखकृतानां भावानामनुस्मरणम् / स्वास्थ्य जघन्यरात्रनिद्रो20 च्छेदसमानदर्शनोदाहरणचिन्ताऽभ्यासादिभिर्विभावैः समुत्पद्यते / तामभिनयेच्छिरःकम्प नाऽवलोकनभ्रूसमुन्नमनादिभिरनुभावः / अत्रार्ये / / सुखदुःखमतिक्रान्तं तथा मतिविभावितं यथावृत्तम् / चिरविस्मृतं स्मरति यः स्मृतिमानिति वेदितव्योऽसौ // स्वास्थ्याऽभ्याससमुत्था श्रुतिदर्शनसम्भवा स्मृतिनिपुणैः / शिरउद्वाहनकम्पैर्भूत्क्षेपैः साऽभिनेतव्या // सुखदुःवयोः कृतं निष्पत्तिर्यतस्तेषामित्यनेन स्मृतेरशेषविषयव्यापकतामाह- जघन्यः पश्चिमो रात्रैर्भागः / धातुसाम्यकारीति स्मृतिहेतुर्यथोक्तं रात्रियामस्तुरीयः काल इति / ....... १..श्लोकः // 2 शिरोभेद // . ...

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550