Book Title: Kalplata Vivek
Author(s): Murari Lal Nagar, Harishankar Shastry
Publisher: L D Indology Ahmedabad

Previous | Next

Page 477
________________ 288 कल्पलताविवेके निक्षेपणमपि / वान्तेत्यादिनिमित्तसप्तमी। मुहुर्मुहुरिति / सजातीयचित्तवृत्तिप्रवाहमात्रे व्यभिचारिणां भवत्यपि नैकस्य चिरमवस्थानमिति सूचयति / 2 / शङ्का नाम चौर्याभिग्रहणनृपापराधपापकर्मकरणादिभिर्विभावैः समुत्पद्यते / सन्देहात्मिका स्त्रीनीचानाम् / सा च मुहुर्मुहुरवलोकनाऽवगुण्ठनमुखशोषणजिह्वापरिलेहनमुखवर्णभेदवेपथु शुष्कौष्ठवायससाधा5 दिभिरनुभावैरभिनीयते / अत्राकारसंवरणमपि केचिदिच्छन्ति तच्च कुशलैरुपाधिभिरिङ्गितैश्चोपलक्ष्यम् / अत्रायें / द्विविधा शङ्का कार्या आत्मसमुत्था च परसमुत्था च / या तत्र परसमुत्था सा ज्ञेया दृष्टिचेष्टाभिः / किञ्चित् प्रवेपिताङ्गस्तथोन्मुखो वीक्षते च पार्थानि / 10 गुरुसञ्जमानजिह्वः श्यामास्यः शङ्कितः पुरुषः // चौर्याभिग्रहण इति / यदा चौर्येणान्ये परिगृहोता विज्ञातास्तदा तत्सहायस्य तदानीमपरिगृहीतस्याप्यनर्थसंशयस्वभावा शङ्का जायते / चौर्यग्रहणमकार्योपलक्षणम् / तेन ये समानमकार्य कृतवन्तस्तन्मध्यादन्यतमपरिग्रहेऽन्यस्य तथात्वेनाऽज्ञातस्याऽपि शङ्का जायत इत्युक्तं भवति / तेन नृपापराधादिप्रदर्शनमस्यैव प्रपञ्चः / स्त्रीनीचानाम् इति / 15 स्त्रीणामुत्तमस्वभावानां यद्यप्यकार्यं नास्ति अधमानां तु नीचग्रहणादेव सङ्ग्रहस्तथाऽपि स्त्रीग्रहणमकृतपापानामपि स्त्रीणामन्यत्र सापराधे परिगृहीते मनसि शङ्का जायत एव / भयशेषभूतत्वादस्या भीरुस्वभावत्वाच्च तासामिति प्रदर्शनार्थम् / ____ एवं विभाविका स्त्रीनीचानामिति दर्शयन्नायिकान्तरपरिचयाद्यपराधजनिता उत्तमानामपि शङ्का भवतीति दर्शयति / न ह्यत्र विभावा एत एवेति नियमः / नाप्येभ्यो 20 विभावेभ्यः शङ्कव नाप्येभ्यो भवत्येव शङ्केति / किन्तु शङ्का तावत् स्वसामग्रीतः प्रत्यात्मवेद्या जायते / तन्मध्ये चैषामस्त्यनुप्रवेश इतीहोच्यते / अत एव याऽन्यगतत्वेन शङ्का यथा समुद्रदत्तस्य नन्दयन्त्यामन्यानुरागशङ्का / दुर्योधनस्य वा भानुमत्यां, साऽपीह शङ्कात्वेन परिगृहीतैव। केवलमत्यन्तानौचित्यमत्र नायकस्येति नैवविधं वर्णनोचितं भवति / आकारसंवरणम् इति / अवहित्थे यद् बाहुल्येन दृश्यते तदत्रापीति / तदनुभावयोग* 25 माह यदि वाऽवहित्थमत्र भवतीति प्रदर्शयत्यत्र स्थायिनि शङ्का व्यभिचारितामेति तत्र नियमे नाऽवहित्थमपीति प्रदर्श्यते / न तु व्यभिचारिणि व्यभिचार्यन्तरम् / एवं हि सति तस्मिन्नप्यन्यदित्यादि शङ्खलया तदाँयं व्यभिचारिस्थायितां यायात् / यथा शङ्कायां चिन्ता तत्रापि - 1. सम्बन्धयुत // 2. अवयव // 3. शङ्का / खपुस्तके एव // 4. पुंष्पदूषितकप्रकरणे // ख पुस्तके एव // 5. व्यभिचार्यन्तरम् //

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550