Book Title: Jin Stotra Kosh
Author(s): Chandrodayvijay, Suryodayvijay
Publisher: Kot Tapgacch Murtipujak Shwetambar Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः श्रीमण्डपाचलमण्डनश्रीसुपार्श्वेश्वरवर्णनस्तोत्रम्॥४॥ जयानन्द सम्पत्पदा पूर्वचिन्तामणिं मण्डपाहार्यवर्यप्रतिष्ठम् । जगजाग्रदुग्रप्रभावावतारं जिनं श्रीसुपार्श्व सुपार्श्व श्रयेऽहम् ॥१॥ सदानन्तसम्पत्प्रदं जात्यरत्नं स्वयं दर्शनं केन भव्या लभन्ते । यदङ्गाङ्गिपूजां विभाव्यानुभावैः स देयान्मुदं मेऽधिपः श्रीसुपार्श्वः॥२ प्रभो पादपद्मद्वयीहाक्षयाभाभयासंख्यसौख्यैकखानिर्गुणान्ते । भवाम्भोधिपारप्रदा स्वर्मणीजाकृतिः सारपूर्णावतीर्णा तरीव ॥ ३ ॥ जगदुर्गतत्वेन देवो द्रुतं यत्तदिष्टार्थवत्कर्तुमिष्टेऽह्रियुग्मम् । तवैवेव किं कल्पितं कल्पसारैर्दलैः सृष्टिकालेऽन्यथेर कथं तत् ॥४॥ व्रतस्वीकृतौ ते करस्पर्शमापन्मुदा यः स्वमौलौ स लेभे सुलब्धिम्। न किं नाथ सोव सिद्धिश्रियां सःशयः सिद्ध एवान्यथाज्ञः कथं स्यात् नखप्रेवदंशूपविद्धः शयस्ते न तं यच्छिर स्पर्शदीश प्रशस्यः । स एवोत्तमः सुश्रियां सद्मनीवावतीर्णास्तमोहाः प्रकाशाय दीपाः॥६॥ कियत् स्तौमि ते केवलज्ञानरूपं हृदिस्थं जगद्भावसौख्यप्रकाशम् । यदद्यापि जागर्ति नेतस्त्रिलोक्यामिवापूर्वभानूदयः किं सदासीत्॥ तवास्यं प्रशस्यं प्रभो विश्वतापापहं कस्य न स्यात् सुखावश्यसर्गम् । सुदृष्टं कृतेष्टं च नित्योदयश्रीरिवालक्ष्मणः पार्वणेन्दुत्रिलोके ॥ ८॥ सदानन्दसन्दोहदे लोचने तेऽधिप प्राणितां पाप हे सूः प्रशस्ते । इवैते सुधापूरपूर्णैककुण्डे जगन्मृत्युजन्मादितापोपशान्त्यै ॥ ९ ॥ प्रभो भ्रूयुगं ते नतानिष्टसृष्टिप्रणाशप्रतिशं कथं स्यान्न दृष्टम् । जितोन्नष्टमारस्य भीविभ्रमाभ्यां कराभ्यां पपातेव चापद्वयं किम् ॥१० कलाकल्पितानल्पलीलं ललाटं तवालङ्करिष्णूचितं विश्वमीश । जगत्पिण्डितैश्वर्यभोगस्य भाग्याधिपस्येव खेलालयाचित्रशाला ॥११ फणाटोपरोपस्तवास्तीश मौलौ न कस्य श्रिये भक्तभव्याङ्गभाजः। किमुद्वोदुमाढौकते मण्डपोऽसाविवाशेषशर्मश्रियामुत्सुकानाम् ॥१२
१ निष्कलंक.
For Private and Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101